पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२ सर्गः]
411
रुदन् दशरथो दीनः कौसल्याया गृहं ययौ

 कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ।
 न ह्यन्यत्र ममाश्वासः हृदयस्य भविष्यति ॥ २७ ॥

 नयन्त्विति । शिबिकावाहका इति शेषः । अन्यत्रेति । तद्व्यतिरिक्तस्त्रीगृह इत्यर्थः । आश्वासः-चित्तखेदापगमः ॥ २७ ॥

 इति ब्रुवन्तं राजानं अनयन् द्वारदर्शिनः ।
 कौसल्याया गृहं यत्र [१] न्यवेश्यत विनीतवत् ॥ २८ ॥

 द्वारदर्शिनः-वेत्रिणः । विनीतवत्-विनीतास्सन्तः कौसल्याया गृहमनयन् ॥ २८ ॥

 [२]ततस्तत्र निविष्टस्य कौसल्याया निवेशनम् ।
 अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २९ ॥

 तत्र तैर्न्यवेश्य ततस्तत्र निविष्टस्य राज्ञः कौसल्याया निवेशनं,अन्ततस्तस्याश्शयनमधिरुह्यापि मनः लुलितं-कलुषितमेव बभूव ॥ २९ ॥

 पुत्रद्वयविहीनं च सुषयाऽपि विवर्जितम् ।
 अपश्यद्भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥ ३० ॥
 तच्च दृष्ट्वा महाराजः भुजमुद्यम्य वीर्यवान् ।
 उच्चैःस्वरेण चुक्रोश [३] हा हा राम ! जहासि [४]माम् ॥ ३१ ॥
 [५]सुखिता बत [६]तं कालं जीविष्यन्ति नरोत्तमाः ।
 परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ ३२ ॥


  1. तैः न्यवेश्यत । राजेति शेषः-ति.
  2. ततस्तस्य-ङ.
  3. हा राघव-ङ.
  4. नौ-ङ.
  5. सुखिनः सततं-सुखिता-स्सततं-ङ.
  6. तं कालं-तस्मिन् काले, तावत्कालमिति वा-गो.