पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
410
[अयोध्याकाण्डः
दशरथाक्रन्दः

 'अपस्नातो मृतस्नातः' । अरिष्टं सूतिकागृहम्', तद्वत्कश्मलम् ॥ २२ ॥

 शून्यचत्वरवेश्मान्तां [१]संवृतापण[२] वेदिकाम् ।
 क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ २३ ॥

 तदेव प्रदर्श्यते––शून्येत्यादि । शून्यानि-सम्मार्जनादिसंस्काररहितानि । चत्वरं-चतुष्पथम् । वेश्मनां अन्ताः-मध्यप्रदेशाः पर्यन्तप्रदेशाश्च । आपणानां वेदिकाः-आपणवेदिकाः । क्लान्ताः, दुर्बलाः, दुःखार्ताश्च यस्यां सा तथा । नात्याकीर्णः-अत्यन्तं प्राणिसम्मर्दरहितः महापथः यस्याम् ॥ २३ ॥

 तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।
 विलपन् प्राविशत् राजा गृहं सूर्य इवाम्बुदम् ॥ २४ ॥
 [३]महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
 रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २५ ॥

 सुपर्णेन हृतोरगं महाह्रदमिति कुलालादिगृहवत् निर्भयप्रवेशमात्रे दृष्टान्तः ॥ २५ ॥

 अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः ।
 उवाच मृदु [४]मन्दार्तं वचनं दीनमस्वरम् ॥ २६ ॥

 गद्गदः शब्दः, यस्य स तथा । मन्दं च तत् आर्तं च तथा । दीनं-शोच्यम् । अस्वरं-शुद्धकण्ठध्वनिरहितम् ॥ २६ ॥


  1. निर्व्यापारामित्यर्थः अनेन संचारक्षमास्सवें राममनुगता इति द्योत्यते-गो.
  2. देवताम्-ङ.
  3. महोरगविशिष्टो महाहृदः जन्तुमिरकलुषितोऽतिगंभीरः स्यात् । उरगाभावे च सर्वैः कलुषितः स्यादिति वा दृष्टान्तानुरूप्यम् ।
  4. मन्दार्थ-सर्वत्र । (मन्दार्थ-अल्पार्थ-गो.)