पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२ सर्गः]
409
विलपन् बहुधा राजा प्रविवेश स्वपत्तनम्

 प्रस्रवणात्-गिरिप्रस्थादिप्रदेशात् । करेणूनामृषभ इवेति । गजयूथप इवेति यावत् ॥ १७ ॥

 द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
 [१]राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ १८ ॥
 सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।
 कण्टका[२]क्रमणक्लान्ता वनमद्य गमिष्यति ॥ १९ ॥

 सुखस्य सदोचिता तथा । कण्टकेष्वाक्रपणं-पदविक्षेपस्तथा ॥

 अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
 श्वापदानर्दितं श्रुत्वा गंभीरं रोमहर्षणम् ॥ २० ॥

 आनर्दितं-शब्दम् ॥ २० ॥

 सकामा भव, कैकेयि ! विधवा राज्यमावस ।
 न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ २१ ॥

 सकाम । भवेति । एवं सीतादेरनपकारिप्राणिनो दुःखं कृत्वेति शेषः । विधवा राज्यमावस इति । कुत एवंवाद इत्यतः-न हीत्यादि ।

 इत्येवं विलपन् राजा जनौघेनाभिसंवृतः ।
 [३]अपस्नात इवारिष्टं प्रविवेश [४]पुरोत्तमम् ॥ २२ ॥


  1. उत्थास्यतीति पूर्वश्लोके कथनात् तदनुवादोऽत्र । अनाथवद्गच्छन्तमित्यन्वयः ।
  2. क्रमणाकान्ता-ङ.
  3. बहुकालानन्तरं प्राप्तस्य पुत्रस्य मरणे, यथा मृतस्नातः सुदुःखार्तः सूतिकागृहं प्रविशेत् तथेति भावः । प्राप्तपुत्रोऽपि हि दशरथः न पुत्रसुखं लब्धवान्, राज्याभिषेककाल एव स्वाभीष्टहानेः । एवञ्च दशरथः पुनः रामाधीनसुखं अप्रतीक्षमाणः उत्पन्न विनष्टपुत्रमिवात्मानं मेने । दशरथमनोभावस्य तथाऽवस्थितेर्नेमश्लीलोक्तिः ॥
  4. गृहोत्तमम्-ङ.