पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
408
[अयोध्याकाण्डः
दशरथाक्रन्दः

 हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाऽग्निमिव पाणिना ।
 अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य [१]तापसम् ॥ ११ ॥

 [२]निवृत्त्यैव निवृत्यैव सीदतो रथवर्त्मसु ।
 राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२ ॥

 रथवर्त्मसु सीदत इति । रामस्थमार्गदर्शने क्लिश्यत इत्यर्थः ॥ १२॥

 विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् ।
 [३] नगरान्तमनुप्राप्तं बुध्वा [४]पुत्रमथाब्रवीत् ॥ १३ ॥

 आत्मानं नगरान्तं-नगरसमीपपर्यन्तं अनुप्राप्तं बुध्वा अथाब्रवीत् ॥ १३ ॥

 वाहनानां च मुख्यानां वहतां तं ममात्मजम् ।
 पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ १४ ॥

 किमब्रवीदित्यतः वाहनानामित्यादि ॥ १४ ॥

 यः [५]सुखेनोपधानेषु शेते चन्दनरूषितः ।
 वीज्यमानो [६]महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ १५ ॥

 स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।
 काष्ठं वा यदि वाऽश्मानं उपधाय शयिष्यते ॥ १६ ॥

 महार्हाभिः-परमालङ्कारपरमरूपवदुत्तमस्त्रीभिरित्यर्थः ॥ १६ ॥

 उत्थास्यति च मेदिन्याः कृपणः पांसुकुण्ठितः ।
 विनिश्वसन् प्रस्रवणात् करेणूनामिवर्षभः ॥ १७ ॥


  1. राघवं-ङ, च.
  2. निवृत्त्यैव निवृत्त्यैव-पुनःपुनरित्यर्थः ।
  3. पुत्रं नगरान्तं-नगरबाह्यदेशं प्राप्तं मत्वेत्यर्थः-ति.
  4. पुत्रं-पुत्रमधिकृत्य ।
  5. सुखेषूप-ङ.
  6. महाबाहुः-ङ.