पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२ सर्गः]
407
तं तु रेणुपरीताङ्गं उत्थाप्यासान्त्वयन् परे

 नन्वस्तु वा मम त्यागः; मदुपजीविनो मत्पुत्रादेः कथं त्यागः? इत्यत्र, रामवत् पित्रनुवर्तनधर्माविरोधे सति नायं त्यज्यत इत्याह-अनुजानामीत्यादि । भरतो यद । त्वया प्रापितं राज्यं प्राप्य प्रतीतः स्यात्, तदा पित्रर्थं-अनादिस्वकुलधर्मपरिपालनाय गुणवज्ज्येष्ठ-पुत्राभिसिसृक्षुपितृप्रीतिसंपादनाय स मे पुनर्दद्यात्-त्यजेत् तदा मां अतद्दतं-तत्कृत-दानव्यवहाररहितं सत् राज्यमागमत्-प्राप्नुयाच्चेत्-प्राप्तं चेत्-पुनश्च मम राज्यं न्यायतः प्राप्तञ्चेदिति यावत्, तदा स्वकुलधर्मज्येष्ठाभिषेकधर्म-साधकत्वे सुपुत्रत्वात्तमिह लोके-ऐहिकव्यवहारे विहारशय्यासनभोजनादिव्यवहारे परत्र च-पारलौकिके पिण्डोदकादिव्यवहारे चानुजानाम्येवेत्यर्थः[१] ॥ ९ ॥

 अथ रेणुसमुध्वस्तं [२]तमुत्थाप्य नराधिपम् ।
 न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १० ॥

 रेणुसमुध्वस्तम्–आहिताग्न्यादिः, समुध्वस्तरेणुं सम्मार्जितपांसुम् ॥ १० ॥


  1. अत्र तिलके-"कतकस्तु 'अनुजानामि' इत्यादिसार्धश्लोक एकं वाक्यम् । तत्पूर्वार्धे त्यजामीत्यनुकर्षः । तत्तृतीयार्धे 'यन्मे स दद्यात् पित्रर्थं मामतद्दत्तमागमत्' इति पाठः । स दद्यादिति चावर्तते । भरतस्त्वया प्रापितं राज्यं प्राप्य प्रतीतो विवेकवान् सन् यत्पाप्तं राज्यं तत् स पित्रर्थे-पितुर्मम प्रीतिसंपादनाय यदि दद्यात्-त्यजेत्, मां चातदृत्तं न कृतं तस्मै दत्तं दानं राज्यस्य येन तादृशं मां प्रीत्या पूर्ववदागमत् प्राप्नुयाच्चेत्, तदा यत्स मे दद्यादस्मिन् लोके विहारशय्याभोजनादि, परत्र च-परलोके पिण्डदानादि तत्सर्वमनुजानामि-अंगीकरोमि, अन्यथा तं त्यजाम्येवेत्यर्थः" इत्याह–इत्यनूदितम् ॥  गोविन्दराजीयादिरीत्या तु–अनुजानामीत्यर्धे पूर्वेणान्वेति । ऐहिकामुष्मिक-फलकः यः तव सम्बन्धः कृतः तं अनुजानामि-परिहरामि भरतः इदं राज्यं प्राप्य प्रतीतः-हृष्टः 'ख्याते हृष्टे प्रतीतः' इत्यमरः, स्याच्चेत् स मे प्रीत्यर्थे यत् दद्यात् तद्दत्तं मां मा गमत्-मा प्राप्नुयात्-इत्यर्थः ॥
  2. समुत्थाप्य ङ.