पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
406
[अयोध्याकाण्डः
दशरथाक्रन्दः

 तस्येत्यादि । पतितं तमुद्धृत्य तस्य दक्षिणं बाहुं गृहीत्वा कौसल्याऽन्वगात्-स्वपुरं प्रति गम्यमानमन्वगादित्यर्थः । कैकेयी त्वस्य वामं पार्श्वमेव केवलमन्वगात् । तथात्वं तु राज्ञोऽस्यां परमवैरस्यात् तत्स्पर्शासहनादेव ॥

 तां नयेन च संपन्नो धर्मेण विनयेन च ।
 उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५ ॥
 कैकेयि ! [१]मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ।
 न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ६ ॥

 तदेवाह-कैकेयि मा ममाङ्गानि स्प्राक्षीरिति । बान्धवीति । अण्णन्तत्वात् ङीप् ॥ ६ ॥

 ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।
 केवलार्थपरां हि त्वां त्यक्तधर्मा त्यजाम्यहम् ॥ ७ ॥
 अगृह्णां यच्च ते पाणिं अग्निं पर्यणयं च यत् ।

 न केवलमैहिकव्यवहारस्य त्यागः, अपि तु पारलौकिकस्यापीत्याह-अगृह्णामित्यादि । यच्च ते पाणिमगृह्णां यच्च त्वामग्निं पर्यणयं च-अग्निहोत्रसम्बन्धमकार्षं तदप्यतः परं त्यक्ष्यामि ॥ ७ ॥

 अनुजानामि तत्सर्वं अस्मिन् लोके परत्र च ॥ ८ ॥
 भरतश्चेत् प्रतीतः स्यात् राज्यं प्राप्येदमव्ययम् ।
 [२]यन्मे स दद्यात् पित्रर्थं मामतद्दत्तमागमत् ॥ ९ ॥


  1. मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये-च.
  2. यन्मे स दद्यात्प्रीत्यर्थे मां मा तद्दतमागमत्-ङ. एतदनन्तरं-'राज्यस्थो भरतो यन्मां तन्मां नाभ्युपगच्छतु इत्यधिकं-ङ.