पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२ सर्गः]
405
राजा तु पुत्रशोकार्तः पपात भुवि मूर्छितः

द्विचत्वारिंशस्सर्गः

[दशरथाक्रन्दः]

 यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।
 नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी ॥ १ ॥

 अथ दशरथस्य रामपथप्रतीक्षादिजदुःखवर्णनम्–यावदित्यादि । [१] निर्यतः-निर्गच्छत इति षष्ठी । रजोरूपं[२]रथधूलीस्वरूपम् ॥ १ ॥

 [३]यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।
 [४]तावद्य्ववर्धतेवास्य धरण्यां पुत्रदर्शने ॥ २ ॥

 यावत् प्रियं पुत्रं पश्यतीति । रथधूलीदर्शनद्वारेति शेषः । तावत् पुत्रदर्शने-तन्निमित्तं धरण्यां-भुवि अस्य देहो व्यवर्धतेव-विशेषेणाभि-वृद्धम् । उत्थाय स्थित एवाभूदित्यर्थः ॥ २ ॥

 न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।
 तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले ॥ ३ ॥

 रथरजसोऽप्यदर्शने तच्छरीरं पतितमभूदित्युच्यते-न पश्यतीत्यादि ॥ ३ ॥

 [५]तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना ।
 वामं चास्यान्वगात् पार्श्वं कैकेयी [६]भरतप्रिया ॥ ४ ॥


  1. निर्यतः इति षष्ठी-क.
  2. रथ्याधूली-ट.
  3. पुत्रदर्शने–पुत्रदर्शननिमित्तं रजो व्यवर्धतेव । मन्निमित्तेन पुत्रदर्शनेन राजा कञ्चित्कालमप्यव्यथितो भवेदिति मध्वेव रजः व्यवर्धत-गो. ती. अथवा अस्य देहो ब्यवर्धत-पुत्रदर्शनायोत्थाय स्थितः-गो. उत्तरश्लोकदर्शने अयं पक्षः समुचितः ।
  4. ताबद्विवर्धते पांसुः-ङ.
  5. 'तस्य दक्षिणमुद्धृत्य' इति पाठः । तस्य दक्षिणं बाहुं उद्धृत्य गृहीत्वा कौसल्याऽन्वगात् । कैकेयी त्वस्य वामपार्श्वमेव केवलमन्वगात् ॥ ती.
  6. सा सुमध्यमा-च.