पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
404
[अयोध्याकाण्डः
पौरव्यसनम्

 अनर्थिनः सुता इति । मातापित्रोरिति शेषः । स्त्रीणां भर्तार इति । अनर्थिन इत्यनुकर्षः । भ्रातर इति । भ्रात्रन्तरामेति शेषः । अनुचिन्तयन्-अन्वचिन्तयन्नित्यर्थः ॥ १८ ॥

 ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः ।
 शोकभारेण चाक्रान्ताः [१]शयनं [२]न जहुस्तदा ॥ १९ ॥

 ततस्त्वयोध्या रहिता महात्मना
  पुरन्दरेणेव मही सपर्वता ।
 चचाल घोरं भयशोकपीडिता
  सनागयोधाश्वगणा ननाद च ॥ २० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकचत्वारिंशः सर्गः


 पुरन्दरेण रहिता सपर्वता मही चचालेति । पुरन्दरस्य त्रिलोकीपतित्वात् समेरुसर्वभूचक्राधिष्ठातृत्वं सिद्धम् । अतस्तद्राहित्ये पालकाभावात् भूमेश्चलनं सिद्धमिति दृष्टान्तत्वम् । ननादेति । दुःखाच्चक्रन्देत्यर्थः । अरि (२०) मानः सर्गः ॥ २० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकचत्वारिंशः सर्गः



  1. शयनं मूर्छाशयनं-गो. शयनं न जहुः-उत्थातुमपि न शक्ता बभूवुरित्यर्थः ।
  2. नैव भेजिरे-च.