पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१ सर्गः]
403
आहारे वा विहारे वा न कश्चिदकरोन्मनः

 कालिकानिलवेगेन महो[१]दधिमिवोद्धृतम् ।
 रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ १२ ॥

 कालिका-मेघपङ्क्तिः । अनिलवेगेनोद्धतं महोदधिं बभारेवेत्यध्याहारः॥ १२ ॥

 दिशः पर्याकुलास्सर्वाः तिमिरेणेव सवृताः ।
 न ग्रहो नापि नक्षत्रं प्रचकाशे न किञ्चन ॥ १३ ॥
 अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत् ।
 आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ १४ ॥

 अकस्मादिति । प्रसिद्धदैन्यहेतुकिञ्चित्कारणान्तराभावेऽपीत्यर्थः ॥

 [२]शोकपर्यायसन्तप्तः सततं दीर्घमुच्छ्वसन् ।
 अयोध्यायां जनस्सर्वः [३]शुशोच जगतीपतिम् ॥ १५ ॥

 रामवियोगजशोकेन पर्यायतः सन्तप्तः-पुनःपुनः तप्तस्तथा ॥

 बाष्पपर्याकुलमुखः राजमार्गगतो जनः ।
 न हृष्टो लक्ष्यते कश्चित् सर्वः शोकपरायणः ॥ १६ ॥
 न वाति पवनः शीतः न शशी सौम्यदर्शनः ।
 न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ १७ ॥
 [४]अनर्थिनस्सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ।
 सर्वे सर्वं परित्यज्य राममेवा[५]नुचिन्तयन् ॥ १८ ॥


  1. दधिरिवोत्थितः,-द्धतः-ङ.
  2. शोकपरंपरा सन्तप्तः-गो.
  3. चुकोप--ङ.
  4. सुताः स्त्रीणामनर्थिनः, मातॄणां स्तन्यं नापेक्षत इत्यर्थः । भर्तारः स्त्रीणामनर्थिनः । भ्रातरः अनर्थिनः, अन्योन्यमिति शेषः-गो.
  5. न्वचिन्तयन्-ङ.