पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
402
[अयोध्याकाण्डेः
पौरव्यसनम्

 नाग्निहोत्राण्यहूयन्त अग्निहोत्रिभिः, रामविरहदुःखादिति शेषः । सूर्यश्चान्तरधीयतेति । अकाले दुर्दिनमभूदित्यर्थः । व्यसृजन्त्यक्तवन्तः । नागाः–गजाः । एवमादिकं सर्वं रामस्याशेषजाग्रत्प्रपञ्चोपादानश्रीहिरण्यगर्भावतारतया रामस्य सर्वात्मनामात्मभूतत्वात् तस्य दुःखे सर्वस्यापि दुःखं, सुखे सर्वस्यापि सुखं इतीह रामायणे सर्वतः प्रतिपाद्यमानं वास्तवमेवेत्यभिध्येयम् । न [१]पाययन्-ना[२]पाययन्निति यावत् ॥ ९ ॥

 [३]त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि ।
 दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥ १० ॥

 लोहिताङ्गः-अङ्गारकः । सोममभ्येत्येति । रात्रौ सोमासक्तिं प्राप्य दारुणा व्यवस्थिताः । क्रूरार्चिरादिना दारुणत्वम् ॥ १० ॥

 नक्षत्राणि गतार्चीषि ग्रहाश्च गततेजसः ।
 विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे ॥ ११ ॥

 ग्रहाश्चेति । शनिशुक्रादयः । विशाखाः-विमार्गस्थाः । सधूमाः-धूमोपेताश्च ॥ ११ ॥


  1. पालयन्-ट.
  2. पालयन्-ट.
  3. त्रिशङ्कुः इक्ष्वाकुकुलकूटस्थः । लोहिताङ्गः अङ्गारकः । बृहस्पतिबुधयोर्दारुणत्वं दारुणाङ्गारकसंयोगात् क्रूरस्थानगतत्वाद्वा । त्रिशङ्कोर्ग्रहत्वाभावेऽपि छत्रिणो गच्छन्तीतिवद्व्यपदेशः । त्रिशङ्कोः सोमप्राप्तिः ऋजुदेशत्वेन ज्ञेया । ननु 'पूर्णे चतुर्दशे वर्षे पञ्चम्यां भरताग्रजः' इति वक्ष्यमाणरीत्या तत्रैव संभावनया च पञ्चम्यामभिषेक इति सिद्धम् । तस्मिन्नेव च निर्गतः । तथा च कर्कटकस्थे चन्द्रे कथं बुधसमागमः । तस्य सूर्यसमीपवर्तित्वात् । उच्यते–प्राप्तिरत्र नैकराशिस्थितिः । किन्तु, क्वचित् प्राप्तिः, क्वचित् दृष्टिरिति न दोषः । वक्रगस्या समागम इत्यप्याहुः-गो. त्रिषु द्वादशाष्टमजन्मस्थानेषु शङ्कुरिव शङ्कुः-शनैश्चरः-स.