पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४१ सर्गः]
401
आर्तशब्दो महान् जज्ञे रामे प्रब्राजिते वनम्

 न क्रुध्यत्य [१]भिशप्तोऽपि क्रोधनीयानि वर्जयन् ।
 क्रुद्धान् प्रसादयन् सर्वान् समदुःखः [२] क्वचिद्गतः ॥ ३॥

 क्रोधनीयानि-क्रोधकारणानि । क्वचिदिति क्व नु गच्छतीति शेषः ।

 कौसल्यायां महातेजाः यथा मातरि वर्तते ।
 तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥ ४ ॥
 कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् ।
 परित्राता जनस्यास्य [३]जगतः क्व नु गच्छति ॥ ५ ॥
 अहो निचेतनो राजा जीवलोकस्य [४][५]संप्रियम् ।
 धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ ६ ॥

 प्रवत्स्यतीति । प्रवासयतीति यावत् ॥ ६ ॥

 इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
 रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ ७ ॥
 स तमन्तःपुरे घोरं आर्तशब्दं महीपतिः ।
 पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः ॥ ८ ॥
 [६]नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत ।
 व्यसृजन् कबलान् नागाः गावो वत्सान्न पाययन् ॥ ९ ॥


  1. अभिशप्तः-मिथ्यादोषेण निन्दितः ।
  2. कचिदित्यस्य न क्रुध्यतीत्यनेन सम्बन्धः-गो.
  3. स इतः-ङ.
  4. संक्षयं-आधारत्वेन गृहभूतम्-ति.
  5. संक्षयं-च.
  6. नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः । अकुर्वन्न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥ व्यसृजन् कबलान् नागा गावो वत्सान्न पाययन् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ इति क्रमः-- ङ.