पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
400
[अयोध्याकाण्डः
पौरव्यसनम्

 तेषां वचः सर्व[१]गुणोपपन्नं
  प्रखिन्नगात्रः प्रविषण्णरूपः ।
 निशम्य राजा कृपणः सभार्यः
  व्यवस्थितस्तं सुतमीक्षमाणः ॥ ५१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चत्वारिंशस्सर्गः


 व्यवस्थितः–स्थितवानित्यर्थः । [२]आशा (५०) मानः सर्गः ॥ ५१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चत्वारिंशस्सर्गः


एकचत्वारिंशस्सर्गः

[पौरव्यसनम्]

 तस्मिंस्तु पुरुषव्याघ्रे [३].विनिर्याते कृताञ्जलौ ।
 आर्तशब्दोऽथ संजज्ञे स्त्रीणामन्तःपुरे महान् ॥ १ ॥

 अथ रामवनप्रयाणनिमित्तः सर्वप्रजाशोकः । तस्मिंस्त्वित्यादि ।

 अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
 यो गतिश्शरणं चासीत् स नाथः क्व नु गच्छति ॥ २ ॥

 तपस्विनः शोच्यस्येति यावत् । यो गतिः-सकलसुखावाप्तिहेतुः । शरणं-सर्वापत्राता ॥ २ ॥


  1. गुणोपपन्नः-ङ.
  2. व्याख्यादृष्ट्या अस्मिन् सर्गे एकः श्लोकः अधिकः । स क इति न ज्ञायते ॥
  3. निष्क्रामति-ङ