पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः]
399
स्मरन् हितं तु रामस्य राजा कृच्छ्रान्न्यवर्तत

 उपालब्धोऽपीति । पुनर्गमनानन्तरं राज्ञा कृतोपालम्भोऽपीत्यर्थः । दुःखस्य हेतुभूतं पापं चिरं-विलम्बो मा भूत् । अत उपालब्धोऽपि नाश्रौषमित्येव वक्ष्यसि । ततः शीघ्रं गच्छेति तमब्रवीत् ॥ ४७ ॥

 स रामस्य वचः[१]कुर्वन् अनुज्ञाप्य [२]च तं जनम् ।
 व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ॥ ४८ ॥

 तं जनमनुज्ञाप्येति । अनुव्रजत्पौरजनं रामेण कृतानुज्ञं कृत्वा स्वतो व्रजतोऽपि हयान् पुनश्च शीघ्रं-शीघ्रगमनार्थं चोदयामास ॥

 न्यवर्तत [३]राज्ञा रामं कृत्वा प्रदक्षिणम् ।
 मनसाऽप्यश्रुवेगैश्च न न्यवर्तत मानुषम् ॥ ४९ ॥

 राज्ञा । सहेति शेषः । रामं प्रदक्षिणं कृत्वेति । मनसेति शेषः । न्यवर्ततेति । देहमात्रेणेति शेषः । अपि तु मनसा अश्रुवेगैश्च न्यवर्तत । मानुषं-मानुषसमूहः, जनसमूह इत्यर्थः, 'तस्य समूहः' इति मानुषशब्दात् अण् ॥ ४९ ॥

 यमिच्छेत् पुन[४]रायान्तं नैनं दूरमनुव्रजेत् ।
 इत्यमात्या महाराजं ऊचुर्दशरथं वचः ॥ ५० ॥

 अथ उत्कटदिदृक्षस्य च राज्ञः प्रकृतीनां हितवचनान्निवृत्तिरित्युच्यते-यमित्यादि ॥ ५० ॥


  1. श्रुवा-ङ.
  2. तं जनं-अवरोधजनमिति वाऽर्थः । उत्तरत्र आगंगं पौरजनानामनुगमनस्य वचनात् । 'न्यवर्तत जनो राज्ञः 'इत्युत्तरलोकपाठान्तरं अत्रानुकूलम् ।
  3. जनो राज्ञो-ङ.
  4. रायातं-ङ.