पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
398
[अयोध्याकाण्डः
वनप्रस्थानम्

 [१]प्रत्यगारमिवायान्ती वत्सला वत्सकारणात् ।
 बद्धवत्सा यथा धेनू राममाताऽभ्यधावत ॥ ४३ ॥

 प्रत्यगारं । वत्सावस्थितिमद्गृहमुद्दिश्येत्यर्थः ॥ ४३ ॥

 तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम् ।
 क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ॥ ४४ ॥
 रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम् ।
 असकृत् प्रैक्षत तदा नृत्यन्तीमिव मातरम् ॥ ४५ ॥

 रामलक्ष्मणसीतार्थमिति । तद्वियोगशोकवशादित्यर्थः । स्रवन्तीमिति । मुञ्चन्तीमिति यावत् । नृत्यन्तीमिवेति । तद्वदितस्ततः परिभ्रमन्तीमिति यावत् ॥ ४५ ॥

 तिष्ठेति राजा चुक्रोश याहि याहीति राघवः ।
 सुमन्त्रस्य बभूवात्मा [२]चक्रयोरिव चान्तरा ॥ ४६ ॥

 परस्परविरुद्धव्यापारमध्यगत्वे दृष्टान्तः–वक्रयोरित्यादि । युयुत्सुसेनयोरित्यर्थः । अन्तरा-मध्यप्रदेशः ॥ ४६ ॥

 [३]नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि ।
 चिरं दुःखस्य पापिष्ठं इति रामस्तमब्रवीत् ॥ ४७ ॥


  1. अगारं प्रत्यायान्ती-गो. वत्सलेत्यत्रोपपादकमिदम् ।
  2. रथपूर्वपश्चाद्भागस्थितयोः चक्रयोर्मध्ये पतितः पुरुषः यथा उपरि गन्तुं पश्चान्निवर्तितुं च न शक्नुयात् तथा सुमन्त्रमनः स्तब्धा बभूवेत्यर्थः ।
  3. एवं स्तब्धं सुमन्त्रं प्रति रामो वदति–नाश्रौषमित्यादि । इदानीं तिष्ठति राज्ञाऽभिहितेऽपि त्वं उपरि गच्छ-यदि च राज्ञा अनन्तरं प्रतिनिवृत्तः भवान् 'किं मदाज्ञा न परिपालिता' इत्युपालब्धोऽपि 'तदहं नाश्रौषं' इति राजानं प्रति समाधानं वक्ष्यसि–एवं समाधानं वदेति यावत् ।
    किमर्थमेवमित्यत्राह–चिरमित्यादि । दुःखस्य चिरं–विलम्बः पापिष्टं—असह्यं ; यतः । मातापितृदुःखदर्शनमितः परं सोढुमहं न शक्नोमि, अतः शीघ्रं गच्छ इति रामः सुमन्त्रमब्रवीदित्यर्थः ।