पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः ]
397
पौराः सर्वेऽनुजग्मुस्ते रामं संप्रस्थितं वनम्

 हा रामेति जनाः केचित् [१]राममातेति चापरे ।
 [२]अन्तः[३]पुरसमृद्धं च क्रोशन्तः पर्यदेवयन् ॥ ३८ ॥

 क्रोशन्त इति । उच्चैश्शब्देन सहेत्यर्थः ॥ ३८ ॥

 अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम् ।
  [४]राजानं मातरं चैव ददर्शानुगतौ पथि ॥ ३९ ॥
 स बद्ध इव पाशेन किशोरो मातरं यथा ।
 धर्मपाशेन [५]संयुक्तः प्रकाशं नाभ्युदैक्षत ॥ ४० ॥

 किशोरः-अश्वपोतः । प्रकाशं नाभ्युदैक्षतेति । सङ्कुचितदर्शन व्यापारोऽभूदित्यर्थः । तत्र हेतुः-धर्मेत्यादि ॥ ४० ॥

 [६]पदातिनौ च यानार्हौ अदुःखार्हौ सुखोचितौ ।
 दृष्ट्वा सञ्चोदयामास शीघ्रं याहीति सारथिम् ॥ ४१ ॥
 न हि तत् पुरुषव्याघ्रः [७]दुःखजं दर्शनं पितुः ।
 मातुश्च सहितुं शक्तः तोत्रार्दित इव द्विपः ॥ ४२ ॥

 सहितुमिति । 'तीषसह-'इति पक्षे इट् । तोत्रं-प्रतोदः ॥ ४२ ॥


  1. सन्धिरार्षः-हा राममातः-इत्यर्थः-गो.
  2. समृद्धमन्तःपुरं-अन्तःपुरजनः पर्यदेवयदिति विपरिणामः–गो. अन्तःपुरसमृद्धं-अन्तः पुरसहितम्-ति.
  3. पुरं-ङ.
  4. राजानं मातरं उभावपि पथि अनुगतौ ददर्श इत्यन्वयः।
  5. संक्षिप्तः-ङ.
  6. यानार्हौ अदु:खार्हौ सुखोचितौ मातापितरौ पदातिनौ दृष्ट्वा—इत्यन्वयः । अत्र हेतुरुत्तरश्लोके उच्यते ।
  7. दुःखदं-ङ.