पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
396
[अयोध्याकाण्डः
वनप्रस्थानम्

 [१]रुदिताश्रुपरि[२]द्यूनं हाहाकृतमचेतनम् ।
 प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥ ३४ ॥

 रुदिताश्रुपरिद्यूनं-[३]विजिगीषाशून्यं, 'दिवोऽविजिगीषायां' इति निष्ठातस्य नत्वम् ॥ ३४ ॥

 सुस्राव[४]नयनैस्त्रीणां अस्त्रमायाससम्भवम् ।
 मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ ३५ ॥

 नयनैरिति । प्रमुक्तमिति शेषः । अस्रं-अश्रु । आयासः-खेदः । मीनानां परस्परसंक्षोभेन चलितैः-चलितेभ्यः पङ्कजेभ्यः सलिलमिवेत्यभूतोपमा । कादाचित्कवर्षवशसम्भृतोदकपद्मसम्भवात् सिद्धोपमा वा ॥ ३५ ॥

 दृष्ट्वा तु नृपतिः श्रीमान् [५]एकचित्तगतं पुरम् ।
 निपपातैव दुःखेन हतमूल इव द्रुमः ॥ ३६ ॥

 एकचित्ततां गतं तथा । स्वेनेति शेषः ॥ ३६॥

 ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः ।
 नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ ३७ ॥


  1. रुदिताश्रुपरिद्यूनं-अनुत्साहवत्-ति.
  2. क्लिन्नं-ङ.
  3. दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुति-मोदमदस्वप्नकान्तिगतिषु इति धातुः । एतदर्थकधातोः क्तप्रत्यये द्यूतमिति रूपम् । परन्तु तत् विजिगीषारूपार्थे मात्रम् । इतरथा तु द्यूनं इति भवति । उपसर्गाणामनेकार्थत्वात्परिम्लानमिति वा प्रकृते अर्थः ।
  4. नयनैः-नयनेभ्यः-गो.
  5. रामैकचित्ततां गतमिति वा ।