पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः]
395
ततः सबालवृद्धा सा नगरी मूर्छिताऽभवत्

 महत्येषा हि ते[१]सिद्धिः एष चाभ्युदयो महान् ।
 एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २६ ॥

 तदेव प्रतिपाद्यते-महतीत्यादि ॥ २६ ॥

एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम् ।
 नरास्तमनुगच्छन्तः प्रियमिक्ष्वाकुनन्दनम् ॥ २७ ॥
 अथ राजा वृतस्त्रीभिः दीनाभिर्दीनचेतनः ।
 निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ २८ ॥
 शुश्रुवे चाग्रतस्त्रीणां[२]रुदन्तीनां महास्वनः ।
 यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २९ ॥
 पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदाऽभवत् ।
 परिपूर्णः शशी काले ग्रहणोपप्लुतो यथा ॥ ३० ॥

 सन्नः-खिन्नः ॥ ३० ॥

 स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः ।
 सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ ३१ ॥
 रामो याहीति सूतं तं तिष्ठेति स जनस्तदा ।
 उभयं नाशकत्सूतः कर्तुमध्वनि चोदितः ॥ ३२ ॥

 सूतं तमिति । आहेति शेषः । उभयं नाशकदिति । तथा च नातिमन्दं नातिवेगं वाहयति स्मेति यावत् ॥ ३२ ॥

 निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः ।
 पतितै[३]रभ्यवहितं प्रशशाम महीरजः ॥ ३३ ॥

 [४]अभ्यवहितं-अवसिक्तमिति यावत् ॥ ३३ ॥


  1. बुद्धिः-ङ.
  2. रुदतीनां-ङ.
  3. रभ्युपहृतं-ङ.
  4. अभ्यवहितं रथनेम्युद्धतम्-ति.