पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
394
[अयोध्याकाण्डः
वनप्रस्थानम्

 ततस्सबालवृद्धा सा पुरी परमपीडिता
 राममेवाभिदुद्राव[१]घर्मार्ता सलिलं यथा ॥ २० ॥

 परमपीडितेति । रामवियोगदुःखेनेति शेषः ॥ २० ॥

 पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः ।
 बाष्पपूर्णमुखास्सर्वे तमूचुर्भृशनिस्वनाः ॥ २१ ॥

 तमिति । सुमन्त्रमिति यावत् ॥ २१ ॥

 संयच्छ वाजिनां रश्मीन्, सूत ! याहि शनैश्शनैः ।
 मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ २२ ॥
 आयसं हृदयं नूनं राममातुरसंशयम् ।
 [२][३]यद्देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २३ ॥

 देवगर्भः-देवनिधिः भगवान् हिरण्यगर्भः । तदंशत्वादेव तत्प्रतिमः, अनन्तकल्याणगुणैकतानस्वभावः ॥ २३ ॥

 कृतकृत्या हि वैदेही छायेवानुगता पतिम् ।
 न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २४ ॥

 मेरुमर्कप्रभा यथेति । नित्यं तत्प्रदक्षिणसञ्चारादेव ॥ २४ ॥

 अहो ! लक्ष्मण ! सिद्धार्थः सततं प्रियवादिनम् ।
 भ्रातरं देवसङ्काशं यस्त्वं परिचरिष्यसि ॥ २५ ॥

 यस्त्वं भ्रातरं परिचरिष्यसि, स त्वं अहो सिद्धार्थः-कृतार्थः ॥


  1. धर्मार्तः-ङ.
  2. देवकुमारसदृशे-गो., ती. स्कन्दतुल्ये-ति.
  3. यद्वेदगर्भ-ङ.