पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः]
393
ततस्तु तं रथं रामोऽप्यारुरोह सलक्ष्मणः

 सीतातृतीयानारूढान् दृष्ट्वा [१][२]धृष्टमचोदयत् ।
 सुमंत्र[३]स्सम्मतानश्वान् वायुवेगसमान् जवे ॥ १७ ॥

 सम्मतान्-सम्मतसर्वलक्षणान् ॥ १७ ॥

 प्रयाते तु महारण्यं चिररात्राय राघवे ।
 बभूव नगरे मूर्छा बलमूर्छा जनस्य च ॥ १८ ॥

 चिररात्रायेत्यव्ययम्, 'सत् फट् कत् चिररात्राय' इति चादौ पठ्यमानत्वात्, चिरपर्यायः, चिरं[४]-उक्तरूपविलम्बपूर्वं राघवेऽरण्यं प्रयाते तु सति नगरे विद्यमानस्य जनस्य मूर्छा बभूव ; 'मूर्छा मोहसमुच्छ्रयोः' । रात्रौ निर्गच्छतोऽपि रामस्य निर्गमनज्ञानं बभूव । तत एव बलस्य-चतुरङ्गबलस्य च मूर्छा-सम्भ्रमो बभूव ॥ १८ ॥

 तत्समाकुलसंभ्रान्तं मत्त[५]संकुपितद्विपम् ।
 हयशिञ्जित निर्घोषं पुरमासीन्महास्वनम् ॥ १९ ॥

 अस्यैव प्रपञ्चः-तदित्यादि । तत्-पुरं [६]समाकुलसंभ्रान्तं-समाकुलं-इतिकर्तव्यतामूढं संभ्रान्तं-रामानुगमनत्वरायुक्तम् । मत्ताः अत एव संकुपिताः द्विपाः यस्मिन् तत्तथा । हयानां पर्याकुलप्राणिभूषणशब्दानां च निर्घोषः-ध्वनिर्यास्मिन् तत्तथा । 'भूषणानां तु शिञ्जितम्' ॥ १९ ॥


  1. धृष्टं-विना सङ्कोचं, कारणान्तरेण प्रयाणविलम्बे वनवासात्प्रतिनिवर्तनकाले विलम्बापातादित्याशयः ।
  2. रथं-ङ.
  3. स्सयतान्-ङ.
  4. चिरं मूर्छा-मोहः बभूव-गो. चिरकालावस्थित्यर्थमित्यर्थः-ति । अथवा मृगयाद्यर्थ रामवनगमनसमयापेक्षया वैलक्षण्यद्योतनाय चिरकालं रामे वनं प्रतिप्रयाते इत्यर्थः ।
  5. संकुलित-ङ.
  6. समाकुलं-अन्तःकरणक्षोभयुक्तं संभ्रान्तं बाह्यन्द्रिय-क्षोभयुक्तम्-गो.। अत्र पूर्वश्लोकगतमूर्छा पदस्य मोहपरत्वे-रामचिरवियोगनिर्णयसमनन्तरं मूर्छा-स्तब्धता बभूव । तदनन्तरं च समाकुलमित्यादि ।