रथमारोह, भद्रं ते, राजपुत्र ! महायशः !
[१]क्षिप्रं त्वां प्रापयिष्यामि यत्र मां, राम ! वक्ष्यसि ॥ ११ ॥
यत्र मामिति । यद्देशप्रापणे म[२]वक्ष्यसि-नियोक्ष्यसि तं देशं त्वां क्षिप्रं प्रापयिष्यामि । नेह रजन्यां वस्तव्यमिति शेषः ॥ ११ ॥
चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ।
तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥ १२ ॥
कुत इत्यतः–चतुर्दशेत्यादि । यानि चतुर्दशवर्षाणि त्वया वने वस्तव्यानि, तान्यद्यैवोपक्रमितव्यानीति देव्या कैकेय्या तथा चोदितोऽसि 'अद्यैव गच्छ' इति ॥ १२ ॥
तं रथं सूर्यसङ्काशं सीता हृष्टेन चेतसा ।
आरुरोह वरारोहा कृत्वाऽलङ्कारमात्मनः ॥ १३ ॥
वनवासं हि संख्याय वासांस्याभरणानि च ।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १४ ॥
तथैवायुधजातानि भ्रातृभ्यां कवचानि च ।
रथोपस्थे प्रतिन्यस्य सचर्म कठिनं च तत् ॥ १५ ॥
अथो ज्वलनसङ्काशं चामीकरविभूषितम् ।
तमारुरुहतुस्तूर्णां भ्रातरौ रामलक्ष्मणौ ॥ १६ ॥
'कृत्वाऽलंकारमात्मनः' इत्युक्तम् ; तत्पाधनसंपत्तिः प्रागेव प्राप्तेति स्मार्यते-वनवासं हीत्यादि । श्वशुरो यानि ददौ तानि, आयुषजातादीनि च रथोपस्थे प्रतिन्यस्य-प्रतिष्ठाप्य आरुरुहतुः ॥ १६ ॥