पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः]
391
आरुरोह रथं सीता प्रथमं हृष्टमानसा

 व्यसनी वा दरिद्रो वा गतिरेष तवाऽनघ !
 एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥
 इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् ।
 [१]दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ ७ ॥

 इदं हि-ज्येष्ठानुवर्तनरूपं । क्षत्रकुलोचितधर्मान्तरमप्याहदानमित्यादि । मृधेषु-युद्धेषु ॥ ७ ॥

 लक्ष्मणं त्वेवमुक्त्वा सा [२]संसिद्धिं प्रियराघवम् ।
  [३]सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥

 संसिद्धिं-समीचीना भगवद्ब्रह्मरामसेवामयी सिद्धिर्यस्य स तथा । प्रियो राघवो यस्य स तथा । तं-लक्ष्मणम् ॥ ८ ॥

 [४]रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ।
 [५]अयोध्यामटवीं विद्धि गच्छ, तात ! यथासुखम् ॥ ९ ॥
 ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् ।
 विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ १० ॥


  1. एतदनन्तरं 'ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् इत्यधिकं-ङ.
  2. संसिद्धम्-ङ. च.
  3. एतदनन्तरं 'गम्यतामर्थलाभाय क्षेमाय विजयाय च । शत्रुपक्ष-विनाशाय पुनः संदर्शनाय च ॥' इत्यधिकं-ङ.
  4. रामं दशरथं विद्धि-पितरमवगच्छेत्यर्थः । जनकात्मजा मां विद्धि-मातरं विद्धीत्यर्थः अटवीमयोध्यां विद्धि-तद्वद्भोगस्थानं विद्धि । यद्वा रामं दशरथं...दशति....इति दशः पक्षी....स गरुडः रथो यस्य तं विष्णुं विद्धीत्यर्थः । जनकात्मजां मां लक्ष्मीं विद्धि । .....यद्वा रामं दशरथं च विद्धि उभयोस्तारतम्यं पश्येत्यर्थ: । मां जनकात्मजां च विद्धि गुणत आलोचय । ( एवं परिशीलने-दशरथ-मत्सेवापेक्षया रामसीतासेवैव तव ज्यायसी भवेदिति भावः ).....'यद्वा-अयोध्यामटवीं विद्धि-निर्जनेयं भविष्यतीत्यर्थः-गो.
  5. एतच्छ्लोकानन्तरमेव कुत्रचित् 'लक्ष्मणं स्वेवमुक्त्वा' इति श्लोको दृश्यते-ङ.