पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
390
[अयोध्याकाण्डः
वनप्रस्थानम्

 तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह ।
 राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २ ॥

 तं चेति । उपसंग्रहपूर्वं कृतप्रदक्षिणं राजानमित्यर्थः । शोकसम्मूढत्वं प्राग्वन्मातृदुःखदर्शनादेव ॥ २ ॥

 अन्वक्षं लक्ष्मणो भ्रातुः [१] कौसल्यामभ्यवादयत् ।
 अथ मातुः सुमित्राया जग्राह चरणौ पुनः ॥ ३ ॥

 अन्वक्षं-अनुगं-अनुपदम् । लक्ष्मणः रामेण कौसल्याभि [२] वादनात्पश्चात् भ्रातुर्जननीं कौसल्यां अभ्यवादयत् ॥ ३ ॥

 तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् ।
 हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ ४ ॥
 [३]सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने ।
 रामे [४]प्रमादं मा कार्षीः, पुत्र ! भ्रातरि गच्छति ॥ ५ ॥

 सृष्ट इति । अत्रत्ये सुहृज्जने स्वनुरक्तोऽपि मया त्वं वनवासाय सृष्टः-अनुमतः । स त्वं रामे-रामसेवायां प्रमादं-अनवधानं मा कार्षीः ॥ ५ ॥


  1. अत्र सर्वकोशेष्वेवमेव पाठो दृश्यते । परं तु 'जननीमभ्यवादयत्' इति व्याख्यासम्मतः पाठ इति प्रतिभाति । यथाश्रुतपाठे भ्रातुरन्वक्षं-भ्रातुरनुपदमेवेत्यर्थः । भ्रातुः, जननीमिति शेष इति तिलके ।
  2. वंदना-घ.
  3. यथा कौसल्या लोकरक्षणार्थे पुत्रं प्रासूत, एवं मया सुहृज्जने रामे स्वनुरक्तस्त्वं वनवासाय सृष्टः-गो. । अत्रत्यसुहृज्जने स्वनुरक्तोऽपि स्वं वनवासाय सृष्टः-अनुमतः-ती.
  4. यद्वा-रामे प्रमादं मा कार्षीः-रामे वनं गच्छति त्वमत्रैव मा तिष्ठ-गो.