पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४० सर्गः ]
389
प्रदक्षिणं तातं प्रतस्थुस्ते त्रयो वनम्

 [१]मुरजपणवमेधघोषवत्
  दशरथवेश्म बभ्रुव यत्पुरा ।
 [२]विलपितपरिदेवनाकुलं
  व्यसनगतं तदभूत्सुदुःखितम् ॥ ४१ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः


 मुरजपणवा एव मेघाः, तेषां घोषः अस्त्यस्येति तथा । कवि (४१) मानः सर्गः ॥ ४१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः


चत्वारिंशस्सर्गः

[वनप्रस्थानम्]

 अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ।
 [३]उपसंगृह्य राजानं चक्रुदींनाः प्रदक्षिणम् ॥ १ ॥

 एवं कृतसर्वानुमतिकस्य निर्याणम्–अथेत्यादि । दीना[४].इति राज्ञो दुःखदर्शनात् ॥ १ ॥


  1. यद्वा मुरजादिसहपाठात् मेघोऽपि वाद्यविशेषः-गो.
  2. विलपितं-विविधं लपितं वाक्यं यत्र-'भाषितं लपितं वचः इत्यमरः ।रामगुणकैकेयीदुर्गुणादिपरं वाक्यमित्यर्थः । परिदेवनं विलापः ।
  3. उपसंगृह्य-वन्दित्वा ।
  4. बृद्धयोर्मातापित्रोः शुश्रूषा न लब्धेति दीनाः-गो