पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
388
[अयोध्याकाण्डः
वनगमनाऽऽपृच्छा

 [१]एतावदभिनीतार्थं उक्त्वा स जननीं वचः ।
 त्रयश्शतशतार्धाश्च ददर्शा[२]वेक्ष्य मातरः ॥ ३६ ॥

 अभिनीतार्थं-निर्णीतार्थं । अवेक्ष्य ददर्शेति । प्रत्येकं विविच्यावेक्ष्य ददर्श स्नेहवशात् । मातरमिति विपरिणामः । तथा [३] मातरश्चापि तं ददृशुरिति विपरिणामः ॥ ३६ ॥

 ताश्चापि स तथैवार्ता मातृृर्दशरथात्मजः ।
 धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः ॥ ३७ ॥

 अथ स दशरथात्मज इदं वाक्यं निजगाद । मातृृः प्रतीति शेषः ॥ ३७ ॥

 [४]संवासात्परुषं किञ्चित् अज्ञानाद्वापि यत्कृतम् ।
 तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः ॥ ३८ ॥

 संवासः-सहवासः ॥ ३८ ॥

 वचनं राघवस्यैतत् [५]धर्मयुक्तं [६]समाहितम् ।
 शुश्रुवुस्ताः स्त्रियस्सर्वाः शोकोपहतचेतसः ॥ ३९ ॥
 जज्ञेऽथ तासां सन्नादः क्रौञ्चीनामिव निस्वनः ।
 मानवेन्द्रस्य भार्याणां एवं वदति राघवे ॥ ४० ॥


  1. अमिनीतार्थे क्रोडीकृतसर्वार्थं-गो.
  2. मातरः-मातृृः अवेक्ष्य-वक्तव्य-मालोच्य-गो.
  3. अथवा श्लोकद्वयमेकान्वयम् जननीमेतावदुक्त्वा त्रयश्शतशतार्धाश्चापि व्यावृत्त्य ददर्श । ताश्चापि मातरः रामं ददृशुः । तथा राममवेक्ष्य-प्रस्थितप्रयाणं ज्ञात्वा दुःखार्ता मातृृः स दशरथात्मजो वाक्यं जगादेत्यर्थः ।
  4. संवासात्-चिरपरिचयवशादिति यावत् । समनुजानीत-क्षान्तमित्यनुजानीतेत्यर्थः
  5. तत्त्वयुकं-ङ.
  6. समाहितं-समीचीनार्थयुक्तं-गो. धीरं-ति.