पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९ सर्गः]
387
आपृच्छन्मातरः सर्वाः रामः संप्रस्थितो वनम्

 एवंगतेति । सर्वतस्सर्वदा सर्वलोकपरमसुखहेतुर्भर्ता परमपूज्य इति सम्यगवगतवतीत्यर्थः । श्रेष्ठाभ्यः-पूज्याभ्यः श्वश्रूमातृप्रमुखाभ्यः श्रुतः धर्मः-स्त्रीधर्मः परोऽपि यया सा तथा । किमवमन्य इति । स्वधर्मापरिज्ञाने किलावमतिप्रसङ्गः । ज्ञातस्वधर्मा कस्मादवमन्ये ; न कस्मादपीत्यर्थः ॥ ३१ ॥

 सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम् ।
 शुद्धसत्त्वा मुमोचाश्रु सहसा [१]दुःखहर्षजम् ॥ ३२ ॥
 तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्ये[२]ऽतिसत्कृताम् ।
 रामः परमधर्मात्मा मातरं वाक्यमब्रवीत् ॥ ३३ ॥

 सत्कृतामिति । कैकेयीव्यतिरिक्तसर्वमातृभिरिति शेषः ॥ ३३ ॥

 अम्ब ! मा दुःखिता [३]भूस्त्वं पश्य त्वं पितरं मम ।
 क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति ॥ ३४ ॥

 वनवासस्येति । वनवासकालस्येत्यर्थः ॥ ३४ ॥

 सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च
 [४]सा [५]समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्धृतम् ॥ ३५ ॥

 सुप्ताया इति । सुप्ताया इव नव वर्षाणि पञ्च च चतुर्दशघटिका-वद्गमिष्यन्ति । चक्षुषी निमील्य स्वस्वकालदुःखमविगणय्य तिष्ठेत्यर्थः । सा त्वं समग्रं-समग्रश्रेयस्कं भ्रातृमार्यासमग्रं, पुनरिव सुहृद्धृतम् ॥ ३५॥


  1. रामविप्रवासाद्दुःखं, सीतामनोदार्ढ्यपरिज्ञानात् हर्षः । अथवा रामविप्रवासप्रयुक्तदुःखमध्येऽपि हर्षः विवक्षितः
  2. व्याख्यादृष्ट्या 'तु सत्कृताम्' इति पाठः स्याद्वा
  3. भूत्वा पश्येस्त्वं-व.
  4. सा समक्ष-ङ.
  5. समग्रं निर्वर्तितपितृवचनं संपूर्णमनोरथं वा-गो. समग्रं-सीतासहितम्-सत्य. सुहृद्धृतमित्युक्त्या एवं वाऽर्थः-इह प्राप्तं-वनवासात्प्रत्यागतं समग्रं-इदानीमुपक्रन्ताभिषेकं प्राप्तवन्तं अत एव सुहृद्धृतमिति ।