पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
386
[अयोध्याकाण्डः
वनगमनाऽऽपृच्छा

 करिष्ये सर्वमेवाहं आर्या यदनुशास्ति माम् ।
 अभिज्ञाऽस्मि यथा भर्तुः वर्तितव्यं श्रुतं च मे ॥ २७ ॥

 यथा भर्तुरिति । विषय इति शेषः । श्रुतं च म इति । मन्मातापितृभ्यां चेति शेषः ॥ २७ ॥

 न मामसञ्जनेनार्या [१]समानयितुमर्हति ।
 धर्माद्विचलितुं नाहं अलं चन्द्रादिव प्रभा ॥ २८ ॥

 असज्जनेन समानयितुं-समं विचारयितुम् । नाहमलमिति । असमर्थति यावत् ॥ २८ ॥

 नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः ।
 नापतिस्सुखमेधेत या स्यादपि शतात्मजा ॥ २९ ॥

 अतन्त्री-तत्रीरहिता वीणा, 'सिरा तन्त्री' । शतात्मजेति बहुव्रीहिः ॥ २९ ॥

 मितं ददाति हि पिता मितं माता मितं सुतः ।
 अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥ ३० ॥

 अमितस्येति । ऐहिकामुष्मिकसकलसुखप्रद इत्यर्थः ॥ ३० ॥

 साऽहमेवंगता [२]श्रेष्ठाश्रुतधर्म [३]परा वरा ।
 आर्ये ! किमवमन्येऽहं, स्त्रीणां भर्ता हि दैवतम् ॥ ३१ ॥


  1. समानयितुं–समानां कर्तु-गो. ति.
  2. श्रेष्ठाभ्यः मात्रादिपतिव्रताभ्यः सम्यक् श्रुतसामान्यविशेषरूपमोत्कर्षा-गो. श्रेष्ठा इति पृथक्पदं वा-ति. गोविन्द-राजीये सर्व एकं पदम् ।
  3. परायणा-ङ.