पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९ सर्गः]
385
सीताऽपि सान्त्वयामास कौसल्या धीरया गिरा

स्वीकारः । सर्वमप्येतत् स्त्रीणामसतीनां हृदयं [१]गृह्णाति-तत्पाप-प्रवृत्तिं न प्रतिबध्नाति । 'कामातुराणां न भयं न लज्जा' इति कृत्वा कुलाद्युचितकृत्यं पृष्ठे कृत्वा कुलाद्यनुचितलोकगर्हितकृत्ये मोहात् प्रवर्तन्त इत्यर्थः । कुत एवमित्यतः -अनित्यहृदया हि ता इति । अव्यवस्थितचित्ता इत्यर्थः ॥ २३ ॥

 साध्वीनां [२]हि स्थितानां तु शीले सत्ये श्रुते [३]स्थिते ।
 स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते ॥ २४ ॥

 एवं कैकेय्यादिवन्न वर्तितव्यमित्युपदिश्य कौसल्यादिवद्वर्तितव्य-मित्युपदिशति–साध्वीनामित्यादि । पतिव्रतानामिति यावत् । अत एव शीले-स्वकुलोचितचरित्रे, श्रुते-गुरुजनोपदेशे, स्थिते-भावे निष्ठा, स्वकुलोचितमर्यादावस्थाने स्थितानां स्त्रीणां परमपवित्राणां-परम- पुण्यसाधनानां मध्ये परमं-परमसुकृतसाघनं पतिरेक एव । अतोऽसौ स्त्रियाः सर्वसाधनेभ्यो विशिष्यते ॥ २४ ॥

 स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम ।
 तव दैवतमस्त्वेषः निर्धनः सधनोऽपि वा ॥ २५ ॥

 यदेवं अतः–स इत्यादि । २५ ॥

 विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम् ।
 कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे[४]मुखस्थिता ॥ २६ ॥

 अभिमुखतया स्थिता-अभिमुखस्थिता ॥ २६ ॥


  1. न अथवा ग्रहणं संक्रमः, विकारात्प्रतिरोधो वा ।
  2. तु-ङ.
  3. शमे-ङ.
  4. स्थिताम्-ङ.