पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
384
[अयोध्याकाण्डः
वनगमनापृच्छा

 एष स्वभावो नारीणां अनुभूय पुरा सुखम् ।
 अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि ॥ २१ ॥

 एष त्वसतीनां नारीणां स्वभावः । ता इमाः पुरा-पूर्वं सुखमनुभूय पश्चादस्य भर्तुरल्पामप्यपदं-दारिद्र्यरोगादिलक्षणां प्राप्य-दृष्ट्वा तं दुष्यन्ति दूषयन्ति इति यावत् । न केवलमेतावत्, प्रजहत्यपि, 'अदभ्यस्तात्' इति झस्य अदादेशः ॥ २१ ॥

 [१]असत्यशीला विकृता [२]दुर्गा अहृदयास्सदा ।
  [३]असत्यः पापसङ्कल्पाः क्षण[४]मात्रविरागिणः ॥ २२ ॥

 असत्यशीलाः-असत्यवचनशीलाः विकृताः-विकारोपेते-क्षणादिव्यापाराः । दुर्गाः-दुष्टाभिसरणगमनवत्यः । स्वभर्तरि सदा अहृदयाः-विरसाः । असत्यः-कुलटाः । पापे-परपुरुषनानाविध-प्रसङ्गलक्षणे सङ्कल्पः-मानसव्यापारः यासां तास्तथा सङ्कल्पः कर्म मानसम्' । क्षणमात्रविरागिणः–क्षणमात्रविरागिण्यः-अल्पनिमित्ततः क्षणमात्रवैरस्याः-अविश्वसनीयस्नेहा इति यावत् ॥ २२ ॥

 न कुलं न कृतं [५]विद्या न दत्तं नापि [६][७]सङ्ग्रहः ।
 स्त्रीणां गृह्णाति हृदयं अनित्यहृदया हि ताः ॥ २३ ॥

 कुलं-प्रशस्तकुलजन्म । कृतं-उपकारः । विद्या-सद्गुरूपदिष्टधर्मविद्या । दत्तं-वस्त्रादिदानम् । सङ्ग्रहः-संग्रहणम्, न्यायतः


  1. विकृताः-असंस्कृताः 'विकृतो रोग्यसंस्कृतः, सततविकारशीला इति वा । दुर्गाः-दुर्ज्ञेयस्वभावाः । अहृदयाः-दयादिरहिताः । असत्यः-कुलटाः । पापसंकल्पाः दुरभिसन्धयः ॥
  2. दुर्गाह्यहृदयाः-ङ.
  3. युवत्यः-ङ.
  4. मात्रात्-ड.
  5. विद्यां-ङ.
  6. संग्रहः-अग्निसाक्षिकपाणिग्रहणम्-गो. दृष्टेऽपि दोषे स्वीकारः-ति. विद्यासंग्रहादिशब्दानां द्वितीयान्तत्वे-हृदयमिति प्रथमान्तं पदं कर्तृवाचकम् ।
  7. संग्रहम्-ङ.