पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९ सर्गः]
383
कौसल्या प्रशंशसाथ सीतां रामानुगामिनीम्

 एतानि वर्षाणीति । चतुर्दशवर्षाणीति यावत् ॥ १५ ॥

 नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः ।
 प्रायच्छत्सर्वमाहृत्य सीतायै [१]क्षिप्रमेव तत् ॥ १६ ॥

 प्रायच्छदिति । कोशाध्यक्ष इति शेषः ॥ १६ ॥

 सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
 भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः ॥ १७ ॥

 सुजातानि गात्राणीति योजना ॥ १७ ॥

 व्यराजयत वैदेही वेश्म तत्सुविभूषिता ।
 उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः ॥ १८ ॥

 उद्यत इति षष्ठी । काले-प्रातःकाले । प्रमेव स्थितां तामिति योजना[२] ॥ १८ ॥

 तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत् ।
  [३][४]अत्याचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम् ॥ १९ ॥

 अत्याचरन्तीं-शुश्रूषमाणां । भर्तारमिति शेषः ॥ १९ ॥

 असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः ।
 भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः ॥ २० ॥

 असत्यः-कुलटाः प्रियैस्सततं सत्कृता अपि विनिपातगतं-कृच्छ्रगतं तं भर्तारं शुश्रूषितुं नानुमन्यन्ते ॥ २० ॥


  1. सममेव-ङ.
  2. उत्तरश्लोके इति भावः । प्रातःकाले उद्यतः किरणवतो विवस्वतः-सूर्यस्य प्रभा खं-आकाशमिव सुविभूषिता वैदेही तत् वेश्म व्यराजयत-प्रकाशयामास-इति वाऽर्थः ॥
  3. कृपणं-क्षुद्रं अनाचरन्तीं-अकुर्वती-गो. ति.
  4. अनाचरन्तीं सर्वत्र ॥