पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
382
[अयोध्याकाण्डः
वनगमनाऽऽपृच्छा

 औपवाह्यं-उपवहनमात्रोपयुक्तं-युद्धानर्हमित्यर्थः । युक्त्वा-योजयित्वा । परमिति । दक्षिणमिति शेषः ॥ १० ॥

 [१]एवं मन्ये गुणवतां गुणानां फलमुच्यते ।
 पित्रा मात्रा च यत्साधुः वीरो निर्वास्यते वनम् ॥ ११ ॥

 एवमित्यादि । साधुर्वीरो रामः पित्रा मात्रा च वनं निर्वास्यत इति यत् एवमेव-गुणवतां गुणानां फलमेवमेवोच्यते शास्त्रेणेति मन्ये इति दुःखातिशयादुक्तिः ॥ ११ ॥

 राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः ।
 योजयित्वाऽऽययौ तत्र रथमश्वैरलङ्कृतम् ॥ १२ ॥

 योजयित्वा आययौ इति पदम् ॥ १२ ॥

 तं रथं राजपुत्राय सूतः कनकभूषितम् ।
 आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः ॥ १३ ॥

 रथमाचचक्ष इति । रथ उपस्थित इत्युक्तवानित्यर्थः ॥ १३ ॥

 राजा सत्वरमाहूय व्यापृतं वित्तसञ्चये ।
 उवाच देश[२]कालज्ञो निश्चितं सर्वतः [३]शुचिः ॥ १४ ॥

 अस्मिन् समये राजा वित्तसञ्चये व्यापृतं-धनाध्यक्षं सत्वरमाहूय निश्चितं वच उवाच । सर्वतः शुचिरिति । इहामुत्रानृण इत्यर्थः ॥ १४ ॥

 वासांसि च [४]महार्हाणि भूषणानि महान्ति च ।
 [५]वर्षाण्येतानि संख्याय वैदेह्या क्षिप्रमानय ॥ १५ ॥


  1. पापं-ङ.
  2. कालज्ञं-ङ.
  3. शुचि-ङ.
  4. वरार्हाणि-ङ.
  5. चतुर्दशवर्षपर्याप्तान्यानयेत्यर्थः- गो. प्रतावानेव वनवासः, नाधिक इति दर्ढ्याय-ति.