पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३९ सर्गः]
381
सुमन्त्रस्वानयामास रथं राजाज्ञया तदा

 न त्वेवानागते काले देहात्त्यजति जीवितम् ।
 कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते ॥ ५ ॥

 कैकेय्या क्लिश्यमानस्यापि मम यतो मृत्युर्न विद्यते-तत्प्राप्तिर्न [१]विद्यते अतः काले अनागते देहाज्जीवितं नैव च्यवति ॥ ५ ॥

 योऽहं पावकसङ्काशं पश्यामि पुरतः स्थितम् ।
 विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम् ॥ ६॥

 आच्छाद्यते अनेनेति आच्छादः, तापसानामाच्छादो यस्य स तथा । एवंभूतमात्मजं योऽहं पश्यामि तस्य मे मृत्युर्न विद्यत इति पूर्वेणान्वयः ॥ ६ ॥

 एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः ।
 स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम् ॥ ७ ॥

 क्लिश्यते जन इति । कैकेयीव्यतिरिक्तस्सर्वोऽपि जन इत्यर्थः । इमां निकृतिमिति । वरलक्षणशाट्यमित्यर्थः । 'कुसृतिर्निकृतिश्शाक्यम्' ॥ ७ ॥

 एवमुक्त्वा तु वचनं बाष्पेण [२]पिहितेन्द्रियः ।
 रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः ॥ ८ ॥
 संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः ।
 [३] नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत् ॥ ९ ॥
 औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः ।
 प्रापयैनं महाभागं इतो जनपदात् [४]परम् ॥ १० ॥


  1. दृश्यते-ट.
  2. विहिते-ङ.
  3. नेत्राभ्यामुरलक्षित इत्यर्थः ।
  4. बहिः-ङ.