पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
380
[अयोध्याकाण्डः
वनगमनाऽऽपृछा

 [१] मयि-मत्समीपे । जातगर्धिनीं-जातो मत्पुनदर्शने गर्धः-अभिलाषः यस्याऽस्तीति सा तथा । न्यस्य-त्यक्त्वा। माया (१५) मानः सर्गः ॥ १५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे अष्टात्रिंशस्सर्गः


एकोनचत्वारिंशस्सर्गः

[वनगमनाऽऽपृच्छा]

 रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम् ।
 समीक्षय सह भार्याभिः राजा [२]विगतचेतनः ॥ १ ॥

 अथानुमतसभ्रातृ मार्यवन गमनस्य रामस्य यावत्स्वजनपदं रथेन राज्ञा प्रस्थापनम्-रामस्येत्यादि ॥ १ ॥

 नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् ।
 न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥ २ ॥

 न प्रत्यवेक्षतेति । प्रत्यवेक्षितुं नाशक्नोत्तद्धोरमित्यर्थः ॥ २ ॥

 स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः ।
 विललाप महाबाहू राममेवानुचिन्तयन् ॥ ३ ॥
 मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः ।
 प्राणिनो हिंसिता वाऽपि [३]तस्मादिदमुपस्थितम् ॥ ४ ॥

 विवत्सा इति । धेनव इति शेषः ॥ ४ ॥


  1. त्वयि-त्वत्समीपे-ट.
  2. विगतचेतनः अभूदिति शेषः-गो.
  3. तन्मामिदं-च.