पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८ सर्गः]
379
कौसल्यां वीक्षयस्वेति रामो राजानमब्रवीत्

 एवं ब्रुवन्तं पितरं रामस्संप्रस्थितो वनम् ।
 अवाक्छिरसमासीनं इदं वचनमब्रवीत् ॥ १२ ॥

 एवं ब्रुवन्तमिति । सीता यथासुखं गच्छत्विति ब्रुवन्तम् । संप्रस्थित इति । एवंवादात् सीतया सह वनाय कृतानुमतिकः तया सह संप्रस्थितः-समुद्युक्तप्रस्थान इत्यर्थः ॥ १२ ॥

 इयं, धार्मिक ! कौसल्या मम माता यशस्विनी ।
 वृद्धा चाक्षुद्रशीला च [१] न च त्वां, देव ! गर्हते ॥ १३ ॥

 न च गर्हत इति । पिता ते सत्यव्रतो भवत्वित्येव तदनुशासनादिति शेषः ॥ १३ ॥

 मया विहीनां, वरद ! प्रपन्नां शोकसागरम् ।
 [२]अदृष्टपूर्वव्यसनां भूयस्सम्मन्तुमर्हसि ॥ १४ ॥

 भूयस्सम्मन्तुमिति । प्रधानपत्नीत्वेन सर्वतस्त्वथा पुरस्क्रियमाणाऽपि अतोऽप्यधिकं सम्मानं कर्तुमर्हसि मत्प्रार्थनया ॥ १४ ॥

 इमां, महेन्द्रोपम ! [३]जातगर्धिनी
  तथा विधातुं जननीं ममार्हसि ।
 यथा वनस्थे माय शोककर्शिता
  न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ १५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे अष्टात्रिंशः सर्गः


  1. निजैकपुत्रप्रव्राजनेऽपीत्यभिप्रायः ।
  2. एतदनन्तरं-पुत्रशोकं यथा नर्हेत् त्वया पूज्येन पूजिता । मां हि संचिन्तयन्तीयमपि जीवेसपस्विनी ॥ इत्यधिकं-ङ.
  3. जातः-पुत्रः, तस्मिन् प्रेमवतीमिति वाऽर्थः ।