पुटमेतत् सुपुष्टितम्
४४ सर्गः]
421
देवानामपि देवो यः स तु शोच्यः कथं तव ।
दुःखजमित्यादिना कालान्तरेऽपि राज्यार्हता जनानुरागप्रदर्शनेन प्रकाश्यते ॥ १८ ॥
कुशचीरधरं [३]देवं गच्छन्तमपराजितम् ।
सीतेवानुगता लक्ष्मीः तस्य किं नाम दुर्लभम् ॥ १९ ॥
सीतेवेति । सीतात्मना लक्ष्मीरेवानुगतेत्यर्थः ॥ १९ ॥
[४]धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत्स्वयम् ।
लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम् ॥ २० ॥
धनुः गृह्णन्तीति धनुर्ग्रहाः-शूराः, तेषां वरः श्रेष्ठः ॥ २० ॥
निवृत्तवनवासं तं द्रष्टाऽसि पुनरागतम् ।
जहि शोकं च मोहं च, देवि ! सत्यं ब्रवीमि ते ॥ २१ ॥
द्रष्टाऽसि–इति लुट् ॥ २१ ॥
शिरसा चरणावेतौ [५]वन्दमानमनिन्दिते !
पुनर्द्रक्ष्यसि, कल्याणि ! पुत्रं चन्द्रमिवोदितम् ॥ २२ ॥