त्वन्निवृत्त्यभावे निवर्तते-समाप्तिर्न भविष्यति मध्ये विघ्नो भवति, अतो निवर्तस्वेत्यर्थः ॥ २८ ॥
न केवलमस्मत्प्रार्थना ; अपि तु सर्वभूतप्रार्थनापीत्याहुः-भक्ति-मन्तीत्यादि । जङ्गमाजङ्गमानि सर्वाण्यपि भूतानि भक्तिमन्ति । भक्तिः-स्नेहः । तथा सर्वेषां स्नेहकारणं प्रागेवोक्तम् । त्वन्निवृत्तिं याचमानेषु भक्तेषु त्वमपि भक्तिं-स्नेहं प्रदर्शय, निवृत्त्येति शेषः ॥ २९ ॥
मूलैः-अवाक्शिरोभिः, स्थावरत्वादनुगन्तुमशक्ताः-सेवितुमशक्ताः वायुवेगेनोपाधिना उन्नतवेगिनः उन्नताः-उच्छ्रिताः पादपाः विक्रोशन्तीव-वायुवेगजशाखाचलनशब्दैरिति शेषः ॥ ३० ॥
निश्चेष्टाहारसञ्चारा वृक्षैकस्थानविष्ठिताः ।
पक्षिणोऽपि प्रयाचन्ते सर्वभूतानु[६]कम्पिनम् ॥ ३१ ॥
निर्गताः चेष्टादयो येषां ते तथा । वृक्षरूपे एकस्मिन्नेव स्थाने विष्ठिताः । न तु भुवमवरोहन्ति आहारायापीत्यर्थः । प्रयाचन्त इति । निवृत्तिमिति शेषः ॥ ३१ ॥