पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
432
[अयोध्याकाण्डः
पौरयाचनम्

 [१]एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।
 ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३२ ॥

 निवर्तने-निवर्तननिमित्तं विक्रोशतां तेषामनुग्रहाय राघवं वारयन्तीव-मार्गे तिर्थक्प्रवाहत्वाद्वारयन्तीव स्थिता तमसा ददृशे ॥ ३२ ॥

 ततः सुमन्त्रोऽपि स्थाद्विमुच्य
  श्रान्तान् हयान् संपरिवर्त्य शीघ्रम् ।
 पीतोदकांस्तोयपरिप्लुताङ्गान्
  अचारयद्वै तमसाऽविदूरे ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः


 श्रान्तान्-आसायं रथवहनेन । संपरिवर्त्य- [२]कृतश्रमानुत्पत्तिहेतुपरिवर्तनात् कृतविलुण्ठनान्विधायेत्यर्थः तोयपरितामान्-स्नापितानिति यावत् । तमसाया अविदूरे अचारयत्-भक्षितोलपानकरोत् । गंगा (३३) मानः सर्गः ॥ ३३ ॥

इति श्रीमद्रामायणामृतकतकटीकायामयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः



  1. द्विजातीनामिति सम्बन्धसामान्य षष्ठी । द्विजातिभिः प्रार्थ्यमानरामनिवर्तन इत्यर्थः-गो., ती.
  2. कृतश्रमापनुत्तिहेतु इति स्यात् ॥