पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६ सर्गः]
433
तत्र तां न्यवसन् रात्रिं सर्वे ते तमसातटे

षट्चत्वारिंशः सर्गः

[पौरमोहनम्]

 ततस्तु तमसातीरं रम्यमाश्रित्य राघवः ।
 सीतामुद्वीक्ष्य सौमित्रिं इदं वचनमब्रवीत् ॥ १ ॥

 अथ अशक्यनिवर्तनान् एतान् अतिसन्धाय राघवस्य निर्गमः-तत इत्यादि ॥ १ ॥

 [१]इयमद्य निशा पूर्वा, सौमित्रे ! ग्रहिता [२]वनम् ।
 वनवासस्य, भद्रं ते, स नोत्कण्ठितुमर्हसि ॥ २ ॥

 हे सौमित्रे ! वनवासस्य--वनवासकालस्य सम्बन्धिनी अद्य प्रवृत्ता इयं निशा वनं-वनवासं प्रति पूर्वा प्रहिता-हि गतौ, प्राप्ता, वनवासकालः एतन्निशामारभ्य गणनीय इत्यर्थः । पूर्वनिशायाः पुरसम्बन्धस्य विद्यमानत्वात् न सा चतुर्दशसमावनवासकालेऽन्तर्भवतीत्यर्थः । स त्वं नोत्कण्ठितुं–अद्यप्रभृति पुरौत्सुक्यस्मरणं कर्तुं नार्हसि ॥

 पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः ।
 यथानिलयमायद्भिः निलीनानि मृगद्विजैः ॥ ३ ॥


  1. वनवासस्य पूर्वा प्रथमा अद्येयं निशा इदानीमुपस्थिता रात्रिः प्रहिता-गतप्राया । अतः स त्वं नोत्कण्ठितुमर्हसि । सीतामुदीक्ष्य सौमित्रिमब्रवीदित्यस्य एवं वाऽभिप्रायः । अतिसुकुमारी सीता कथं पद्भ्यामेव वनं गच्छेदिति नोत्कण्ठितुमर्हसीति-गो. वनवासस्य-वनवाससम्बन्धिनिशानां मध्ये अद्य प्रवृत्तेयं निशा वनं-वनवासं प्रति पूर्वा प्रहिता-प्राप्ता-ति. वनं प्रहिता-वने प्राप्ता-ती. अथवा वनवासस्य विषये नोत्कण्ठितुमर्हसीति वा अन्वयः ।
  2. प्रस्थिता-ङ.