पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
434
[अयोध्याकाण्डः
पौरमोहनम्

 यथानिलयं-यथायोगं स्वस्वनिलयमायद्भिः-आगच्छद्भिः मृग-द्विजैर्निलीनानि-अन्तर्निलीनतया व्याप्तानि, अत एव शून्यानि, रुदन्तीव-खिन्नानीव चारण्यानि वर्तन्ते ; तानि पश्य ॥ ३ ॥

 अद्यायोध्या तु नगरी राजधानी पितुर्मम ।
 सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः ॥ ४ ॥

 स्त्रीपुंसैस्साहिता सस्त्रीपुंसा, 'अचतुर....' इत्यादिना निपातः ॥ ४ ॥

 [१]अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः ।
 त्वां च मां च, नरव्याघ्र ! शत्रुघ्नभरतौ तथा ॥ ५ ॥
 पितरं चानुशोचामि मातरं च यशस्विनीम् ।
 [२]अपि [३]वान्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ॥ ६ ॥

 अभीक्ष्णशः रुदन्तौ तौ पितरौ, रोदनवशादन्धौ भविष्यतः ॥ ६ ॥

 भरतः खलु धर्मात्मा पितरं मातरं च मे ।
 धर्मार्थकामसहितैः वाक्यैराश्वासयिष्यति ॥ ७ ॥

 अथापि तदनुशोचने काचन प्रत्याशापीत्याह-भरतः खल्वित्यादि ॥ ७ ॥


  1. कुतः शोचिष्यतीत्यत्र हेतुमाह–अनुरक्ता इत्यादि । बहुभिर्गुणैरिति, राजानं त्वां मां शत्रुघ्नभरतौ इति सर्वत्रान्वेति । मनुजाः अनेकगुणैः राजानं त्वां मां शत्रुघ्नभरतौ च प्रति यतोऽनुरक्ताः अतः शोचिष्यन्ति। स्वस्याहंकाराभावसूचनाय, स्वप्रवासस्य सर्वानिष्टे पर्यवसानसूचनाय च जनानुरागस्य अविशेषेण सर्वविषयत्वमुक्तम्.
  2. अपि वान्धौ न भवेतां, अपि तु भवेतामेव-ति.
  3. नान्धौ-च., चान्धौ-ङ.