पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६ सर्गः]
435
ऐच्छत् सौमित्रिसीताभ्यां गन्तुं रहसि राघवः

 भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः ।
 नानुशोचामि पितरं मातरं चापि, लक्ष्मण ! ॥ ८ ॥
 [१]त्वया कार्यं, नरव्याघ्र ! मामनुव्रजता कृतम् ।
 अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ ९ ॥

 मामनुव्रजता त्वया तु यत् कार्यं-कर्तव्यं तत् कृतमेव । मयि वनं प्रयाते मदनुव्रजनस्यैव त्वत्सौभ्रात्रोचितकर्तव्यत्वात् । अतः परं हि मम वैदेह्या रक्षणार्थे सहायता अन्वेष्टव्या । अतस्तस्यै एतन्निशामारभ्य सदा सुखान्नपानादिकं सम्पादयेति शेषः ॥ ९ ॥

 अद्भिरेव तु, सौमित्रे ! [२]वत्स्याम्यद्य निशामिमाम् ।
 [३]एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ १० ॥

 अहन्तु अद्येमां निशामद्भिरेव कृतप्राणरक्षो वत्स्यामि; वनवासवृतप्रथमसङ्कल्पाङ्गत्वेनेति शेषः । तमेवाभिप्रायं दर्शयति एतद्धीत्यादि ॥ १० ॥

 एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः ।
 [४]अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ ११ ॥
 सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते ।
 प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः ॥ १२ ॥


  1. त्वया यत् कर्तव्यं तत् कृतमेव । हि यतः वदनुव्रजनाभावे वैदेहीरक्षणार्थं सहायता-सहायसमूहः अन्वेष्टव्यः स्यात् । त्वमेको सहायसमूहस्थानीय इति भावः-ति.
  2. वत्स्याम्यत्र-ङ.
  3. वनवासोपक्रमदिवसत्वात्, अस्य तमसातीरस्य पुण्यक्षेत्रत्वाच्च अवासः-गो., ती. । अनुरक्तजनदुःखस्मरणाच्च तथा सीतालक्ष्मणयोस्तु स्वाभिलषितरामानुव्रजनप्राप्त्या न तावान् शोक इति भावः ।
  4. झटिति समयविशेषे प्रस्थानाय तथोक्तिः ।