पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
436
[अयोध्याकाण्डः
पौरमोहनम्

 प्रभूतः यवसः-घासः येषां ते तथा तथा । प्रत्यनन्तरः-प्रत्यासन्नो बभूव ॥ १२ ॥

 उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपास्थिताम् !
 रामस्य [१]शयनं चक्रे सूतः सौमित्रिणा सह ॥ १३ ॥

 शयनं-शयनस्थलं, चक्रे-शर्करापांसूत्क्षेपणादिद्वारेण ॥ १३ ॥

 तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् ।
 रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ॥ १४ ॥
 सभार्यं संप्रसुप्तं तं [२] भ्रातरं वीक्ष्य लक्ष्मणः ।
 कथयामास सूताय रामस्य विविधान् गुणान् ॥ १५ ॥

 गुणान् कथयामासेति । जागरणप्रयोजनशेषतयेति शेषः ॥ १५ ॥

 [३]जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः ।
 सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ १६ ॥

 तां रात्रिमिति । अत्यन्तसंयोगे द्वितीया । उदितो रविरिति । अरुणोदयकालो जात इत्यर्थः ॥ १६ ॥

 गोकुलाकुलतीरायास्तमसाया विदूरतः [४]विदूरतः ।
 अवसत्तत्र तां रात्रिं रामः प्रकृतिभिस्सह ॥ १७ ॥

 गोकुलैराकुलं तीरं यस्यास्सा तथा । विदूर इति । द्विजगणसंवेशदेशापेक्षयाऽतिविप्रकृष्टस्थले, अतिसन्धाय गमनसौकर्यार्थमितिशेषः ॥ १७ ॥


  1. वृक्षदलास्तरणरूपं शयनं-वृक्षदलैः कृतां इत्युत्तरश्लोकानुसारात् ।
  2. श्रान्तं संप्रेक्ष्य-च.
  3. जाग्रतोरेव-च. जाग्रतोरेव सा रात्रिः तयोस्सौमित्रिसूतयोः । जगाम तमसातीरे रामस्य ब्रुवतो गुणान् ॥-ङ.
  4. अदूरतः-गो.