पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६ सर्गः]
437
सज्जीकृत्य रथं शीघ्रं प्रतस्थुस्ते रहस्तदा

 उत्थाय तु महातेजाः प्रकृतीस्ता निशम्य च ।
 अब्रवीत् भ्रातरं रामः लक्ष्मणं पुण्यलक्षणम् ॥ १८ ॥

 निशम्य-अवलोक्य । निद्राणानिति शेषः ॥ १८ ॥

 अस्मद्व्यपेक्षान्, सौमित्रे ! [१]निर्व्यपेक्षान् गृहेष्वपि ।
 वृक्षमूलेषु संसुप्तान् पश्य, लक्ष्मण ! सांप्रतम् ॥ १९ ॥

 अस्मद्व्यपेक्षान्-अस्मास्वेव विशेषेण अपेक्षावतः,अत एव गृहेषु निर्व्यपेक्षान् ॥ १९ ॥

 [२]यथैते नियमं पौराः कुर्वन्त्यस्मभिवर्तने ।
 [३]अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्रयम् ॥ २० ॥

 यथेत्यादि ।[४]यथा वयमनिवृत्तौ नियमं कुर्मः, तथैते अस्मन्निवर्तने नियमं कुर्वन्ति (स्म) । अत एवेमे प्राणानप्यसिष्यन्तित्यक्ष्यन्ति, न तु निवर्तननिश्चयं त्यक्ष्यन्ति ॥ २० ॥

 यावदेव तु संसुप्तास्तावदेव वयं लघु ।
 रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ २१ ॥

 यदेवं अतः–यावदित्यादि ॥ २१ ॥


  1. निरपेक्षान् गृहेष्विमान्-ङ.,
  2. अस्मन्निवर्तने यथा नियमं कुर्वन्ति तथा प्राणानप्यसिष्यन्ति-गो., ति.
  3. अपि प्राणान्न रक्षन्ति-ङ.
  4. एतेन–रामेण प्रतिज्ञायाः प्रथममेव कृतत्वात् तद्विरोधी नियमः उपेक्ष्य एव । अत एवोत्तरत्र पौरमोहनं युज्यते । किञ्च न हि रामवियोगे एतेषां प्राणसंशयः येन रामवञ्चनानन्तरमप्यजीवन्नेव । इदं सर्वे पश्यन्नेव रामः पौरान् वचयामास इति सूचितम् ।