पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
438
[अयोध्याकाण्डः
पौरमोहनम्

 [१]अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः ।
 स्वपेयुरनुरक्ता मां वृक्ष [२]मूलानि संश्रिताः ॥ २२ ॥

 अतो भूयोऽपि स्वपेयुरिति । पूर्वदिने अन्नपानाद्यभावात्, पूर्वरात्रे च शोक[३]वशेन जागरणाच्चेत्याशयः ॥ २२ ॥

 [४]पौरा ह्यत्मकृतादुःखात् विप्रमोक्ष्या नृपात्मजैः ।
 न ते खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २३ ॥

 आत्मकृतात्-आत्मनिमित्तात् । आत्मनेति । आत्मनिमित्तेनेति यावत् ॥ २३ ॥

 अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् ।
 रोचते मे [५]तथा, प्राज्ञ ! क्षिप्रमारुह्यतामिति ॥ २४ ॥

 आरुह्यतामिति । रथ इति शेषः ॥ २४ ॥

 अथ रामोऽब्रवीत् [६]श्रीमान् सुमन्त्रं युज्यतां रथः ।
 गमिष्यामि ततोऽरण्यं गच्छ शीघ्र[७]मितः, प्रभो ! ॥ २५ ॥

 तत इति । रथसंयोजनानन्तरं तेन रथेनेत्यर्थः । शीघ्रं गच्छेति । रथसंयोजनायेति शेषः । प्रभो-समर्थ ॥ २५ ॥

 सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः ।
 योजयित्वाऽथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ २६ ॥


  1. मामनुरक्ता इक्ष्वाकुपुरवासिन इदानीमिव भूयः-पुनः वृक्षमूलानि संश्रिताः न स्वपेयुः, अपि तु स्वगृहं गच्छेयुः । अतो यावन्नोत्तिष्ठन्ति तावत् लघु- शीघ्रं रथमारुह्य गच्छाम इत्येव नञुपश्लिष्टतया व्याख्या सर्वत्र दृश्यते । एतद्व्याख्यारीत्या तु 'नेदानीं' इत्यत्र नम्रहितः पाठ इति भाति ।
  2. मूलेषु-ङ,
  3. वेगेन-ग.
  4. आत्मकृतात्-स्वकृतात् । आत्मना-स्वेन-गो.
  5. महाप्राज्ञ-ङ.
  6. धीमान्-ङ.
  7. मतः-ङ.