पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६ सर्गः]
439
अतिसन्धाय तान् रामः ताभ्यां दूरं ययौ द्रुतम्

 अयं युक्तः, महाबाहो ! रथस्ते, रथिनां वर !
 [१]त्वमारोहस्व, भद्रं ते, ससीतस्सहलक्ष्मणः ॥ २७ ॥

 आरोहस्वेति । आरोहेति यावत् ॥ २७ ॥

 तं स्यन्दनमधिष्ठाय राघवस्सपरिच्छदः ।
 शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ॥ २८ ॥

 परिच्छदः-धनुः कवचादिलक्षणः । आकुलाः-निबिडाः आवर्ताः यस्यास्सा तथा । अतरदिति पदम् ॥ २८ ॥

 स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम् ।
 [२]प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २९ ॥

 भयदर्शिनामध्यभयं-भीतिप्रसङ्गरहितं महामार्गमित्यर्थः ॥ २९ ॥

 [३] मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः ।
 उदङ्मुखः प्रयाहि त्वं [४]रथमास्थाय, सारथे ! ॥ ३० ॥

 त्वं रथमास्थायेति । त्वमेव, न तु वयम् । मोहनार्थं-जनमोहाय ॥ ३० ॥


  1. तमारोह सुभद्रं ते-ङ.,त्वरयाऽऽरोह भद्रं ते-च.
  2. जलस्थितरथादवतीर्य पद्भभ्यामेव महामार्गे प्रापदित्यर्थः । भयदर्शिनां श्वापदादीनां अभयं-तत्सम्बन्धिभयरहितं-गो. महामार्गं-राजमार्गे-ति.
  3. वनं प्रस्थितस्य स्वस्योदङ्मुखगमने नियमभङ्गः स्यादिति मत्वा स्वयं रथादवरुह्य 'त्वं प्रयाहि' इति सुमन्त्रं प्रत्युक्तिः । इममर्थे ३४ श्लोकोऽपि द्रढयति ॥
     ननु सदयस्य रामस्य स्वविरहासहिष्णूनां स्वस्मिन्निरतिशय प्रेमभाजां वञ्चनमनुचितम्-उच्यते नेदं वञ्चनं । व्रणचिकित्सान्यायेन नागरिकाणां उन्मस्तकानन्देन सत्ता न भवेदिति सुसात्म्यानुभवप्रदानार्थं वनवासव्याजेन विश्लेषस्य संकल्पिततया हितव्यापारत्वेन वञ्चन-त्वासंभवात् । यदि रामस्य तथा संकल्पो न भवेत्-तर्हि कथं निश्शेषसर्वजननिद्राकरणं ? सुमन्त्रलक्ष्मणवत्तेष्वेकस्यापि निर्निद्रत्वापत्तेः-गो. महामायाधिष्ठातुर्भगवत इयत्या क्रियया पौरमोहनं नाश्चर्याय-ति. शिष्टं तु २० श्लोकटिप्पण्यां द्रष्टव्यम् ॥
  4. रथमारुह्य-च.