पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
440
[अयोध्याकाण्डः
पौरमोहनम्

 मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः ।
 यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ ३१ ॥

 तदेवाह-मुहूर्तमित्यादि । रथं पुनरिति । इहेति शेषः । न विद्युः-न जानीयुः ॥ ३१ ॥

 रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।
 प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ ३२ ॥

 तथा चक्र इति । उदङ्मुखतया गत्वा प्रतिनिवृत्तः-मार्गान्तरेणागत इति यावत् । एवमुदङ्मुखरथमार्गदर्शने रामः पुरं प्रति निवृत्तवानिति पौराणां भ्रमः सिध्यति ॥ ३२ ॥

 तौ संप्रयुक्तं तु रथं समास्थितौ
  तदा ससीतौ रघुवंशवर्धनौ ।
 प्रचोदयामास ततस्तुरङ्गमान्
  स सारथिर्येन पथा तपोवनम् ॥ ३३ ॥

 समास्थितौ-समास्थितावभूतामिति योजना । तपोवनमिति । येन पथा प्राप्यते, दाक्षिणमिति शेषः ॥ ३३ ॥

 ततः समास्थाय रथं महारथः
  ससारथिर्दाशरथिर्वनं ययौ ।
 [१]उदङ्मुखं तं तु रथं चकार
  प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षट्चत्वारिंशस्सर्गः


  1. उदङ्मुखप्रयाणानुकूलनिमित्तदर्शनात् रथमुदङ्मुखं चकार । न तु ययौ-व्रतभङ्गप्रसङ्गादित्याशयः ।