पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७ सर्गः]
441
प्रभातायां तु शर्वर्यो नापश्यन् राघवं जनाः

 सारथिसहितः ससारथिः । प्रयाणेति । प्रयाणापेक्षितशुभनिमित्तानुभवार्थं, तं रथं उदङ्मुखं-उदङ्मुखतयाऽवस्थापितं समीक्ष्य पश्चादधिरुह्य दक्षिणाभिमुखो ययावित्यर्थः । गर्भ (३४) मानः सर्गः ॥ ३४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षट्चत्वारिंशस्सर्गः


सप्तचत्वारिंशस्सर्गः

[पौरनिवृत्तिः]

 प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना ।
 शोकोपहतनिश्रेष्टा बभूवु[१]र्हतचेतसः ॥ १ ॥

 अथ एवमतिसंहितपौरजनप्रतिनिवृत्तिः -प्रभातायामित्यादि । शोकेन उपहताः, अत एव निश्चेष्टाश्च तथा ॥ १ ॥

 शोकजाश्रुपरिद्यूनाः वीक्षमाणास्ततस्ततः ।
 [२]आलोकमपि रामस्य न पश्यन्ति[३]स्म दुःखिताः ॥ २ ॥

 आलोकमपीति । आलोक्यत इत्यालोकः-आलोकसाधनमपि-रामरथादि[४]दर्शनमपीत्यर्थः ॥ २ ॥

 ते[५]विषादार्तवदना रहितास्तेन धीमता ।
 कृपणाः करुणा वाचो वदन्ति स्म [६]मनस्विनः ॥ ३ ॥


  1. र्गतचे-ङ.
  2. रथरेण्वादिकमपीत्यर्थः-गो., ति, ती. लोकरीत्या इयमुक्तिः ।
  3. सुदुःखि-ङ.
  4. दर्शनरूपम-ग.
  5. विषण्णातं-ङ.
  6. मनीषिणः-च.