पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
442
[अयोध्याकाण्डः
पौरनिवृत्तिः

 धिगस्तु खलु निद्रां तां ययाऽपहृतचेतसः ।
 नाद्य [१]पश्यामहे रामं पृथुरस्कं महाभुजम् ॥ ४ ॥

 पश्यामह इति । पश्याम इति यावत् ॥ ४ ॥

 कथं रामो महाबाहुः स तथाऽवितथक्रियः ।
 भक्तं जनमभित्यज्य प्रवासं [२]तापसो गतः ॥ ५ ॥

 तथा-प्रसिद्धा अवितथा-अमोघा क्रिया यस्य स तथा ॥ ५ ॥

 यो नस्सदा पालयति पिता पुत्रानिवौरसान् ।
 कथं रघूणां स [३]श्रेष्ठः त्यक्त्वा नो विपिनं गतः ॥ ६ ॥
 [४]इहैव निधनं यामो महाप्रस्थानमेव वा
 रामेण रहितानां [५]हि किमर्थं जीवितं [६]हि नः ॥ ७ ॥
 [७]सन्ति शुष्कानि काष्ठानि प्रभूतानि महान्ति च
 तैः प्रज्वालय चितां सर्वे प्रविशामोऽथ पावकम् ॥ ८ ॥
 [८]किं वक्ष्यामो महाबाहुः अनसूयः प्रियंवदः ।
 नीतः स राघवोऽस्माभिः इति वक्तुं कथं क्षमम् ॥ ९ ॥


  1. तङार्षः ; हे इति सम्बोधनं वा परस्परम्- ति.
  2. राघवो-ङ.
  3. ज्येष्ठः-ङ.
  4. निधनं प्रायोपवेशेन । महाप्रस्थानं विना रामं न प्रतिनिवर्तितव्यमिति संकल्पपूर्वकं रामान्वेषणाय गमनम्, पुनरावृत्तिरहितप्रस्थानं वा ।
  5. नः-च.
  6. हितम् च.
  7. प्रायोपवेशेन मरणे तु न झटिति प्राणवियोगः स्यात्, तावत्पर्यन्तं तु रामविरहः दुस्सहः । अतः अग्निमेव प्रविशामेत्याहुः ।
  8. रामवृत्तान्तं पृच्छन्तं जनं प्रति अस्माभिः राघवो वनं नीत इति वक्तुं कथं क्षमम्। अन्यद्वा किं वक्ष्यामः-ती एतद्व्याख्याने अनन्तर श्लोकोऽपि स्वरसः ॥ उत्तरसर्गषष्ठश्लोकोऽप्यत्रानुकूलः।