पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/३९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
358
[अयोध्याकाण्डः
कैकेयीर्गहणम्

 अथ स तस्य वचः श्रुत्वाऽऽगतः पश्चात् वचनाय निर्बध्नन्तीं, भद्रे ! त्वमितो गच्छेति ते मातरं निरस्य-परित्यज्य-[१]निर्वास्य कुबेरवद्विजहार ॥ २४ ॥

 तथा त्वमपि राजानं दुर्जनाचरिते पथि ।
 असद्ग्राहमिमं मोहात् कुरुषे, पापदर्शिनि ! ॥ २५ ॥

प्रकृते यथोक्तमर्थमुपनयति-तथेत्यादि ॥ २५ ॥

 सत्यश्चाद्य प्रवादोऽयं लौकिकः प्रतिभाति मा ।
 पितॄन् समनुजायन्ते नरा मातरमङ्गनाः ॥ २६ ॥

 मात्रीयासद्ग्राहस्य न्यायप्राप्तत्वमस्या दर्शयति-सत्य इत्यादि । मा-मामिति यावत् । समनुजायन्ते-पितृस्वभावं समनुकुर्वाणा जायन्त इत्यर्थः ॥ २६ ॥

 [२]नैवं भव गृहाणेदं यदाह वसुधाधिपः ।
 भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव ॥ २७ ॥

 नैवं भवेति । मातृवदसद्ग्रहाभिनिवेशिनी मा भव । जनस्यास्येति । अस्मदादेरित्यर्थः । गतिर्भवेति । शरणं भवेति यावत् ॥ २७ ॥

 मा त्वं प्रोत्साहिता पापैः देवराजसमप्रभम् ।
 भर्तारं लोकभर्तारं [३]असद्धर्ममुपादधाः ॥ २८ ॥

 भर्तारं प्रति असद्धर्मं-मिथ्यावलृप्तधर्ममेवोपादधाः-उपाधिं कृतवत्यसि ॥ २८ ॥


  1. विवास्य-ट.
  2. नेया-ङ. (विधेया इत्यर्थः).
  3. असद्धर्मे-कनिष्ठाभिषेकपूर्वकज्येष्ठविवासनरूपं मोपादधाः-मा ग्राह्य-गो.