पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५ सर्गः]
359
परीवादो हि ते, देवी ! महान् लोके चरिष्यति

 [१]न हि मिथ्याप्रतिज्ञातं करिष्यति तवानघः ।
 श्रीमान् दशरथो राजा, देवि! राजीवलोचनः ॥ २९ ॥

 मिथ्याप्रतिज्ञातमिति । लीलयैव केवलमुक्तमित्यर्थः । अतो राजीवलोचनो राजा न करिष्यति ॥ २९ ॥

 ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता ।
 रक्षिता जीवलोकस्य, देवि ! रामोऽभिषिच्यताम् ॥ ३० ॥

 अतो ज्येष्ठत्वादिगुणको रामोऽभिषिच्यताम् । अभिषेकानुमतिस्त्वया क्रियतामित्यर्थः ॥ ३० ॥

 परिवादो हि ते, देवि ! महान् लोके चरिष्यति ।
 यदि रामो वनं याति विहाय पितरं नृपम् ॥ ३१ ॥

 विपक्षे बाधमाह-परिवाद इत्यादि । चरिष्यति । प्रचरिष्यतीति यावत् ॥ ३१ ॥

 [२]स राज्यं राघवः पातु भव त्वं विगतज्वरा ।
 [३]न हि ते राघवादन्यः क्षमः पुरवरे [४]वसन् ॥ ३२ ॥


  1. ".......मम वरस्य का गतिरित्याशंक्य प्रकारान्तरेण गतिर्भविष्यतीत्याह-न हीति । प्रतिज्ञातं प्रतिश्रुतं वरद्वयं मिथ्या न करिष्यति । राज्यादप्यधिकमूल्यरलन्नभूषणसम्मानादिभिः सफलं करिष्यतीत्यर्थः"-गो. वस्तुतस्तु–कनिष्ठाभिषेचनपूर्वक व्येष्ठविवासनरूपमधर्मं मा ग्राह्येत्युक्ते-यद्ययमधर्मः तर्हि कथं राजानुमेने-इत्याशकायां आह-न हीति। यतोऽयमनघो राजा ततः प्रतिज्ञातं मिथ्या न करिष्यतीत्यर्थः । नायं प्रतिश्चात्यागापेक्षयाऽधर्म इति भावः
  2. स्वराज्यं-ङ. च.
  3. ते पुरवरे वसन् राघवादन्यः न क्षमो वसेत् । यद्वा 'क्षितिक्षान्त्योः क्षमा, युक्ते क्षमं, शक्ते हिते त्रिषु' इति कोशात् क्षमः-हितः इत्यर्थः । राघवादन्यः-भरतः अत्र वसन्नपि दे क्षमः-हितः न भवेत् इत्यर्थः ।
  4. वसेत्-ङ.