पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
360
[अयोध्याकाण्डः
सिद्धार्थवचनम्

 यदेवमतः-स राघवो राज्यं पातु, त्वं च विगतज्वरा भव । राघवात्-रामादन्यः इह पुरे वसन् भवेद्यदि तदा ते न हि क्षमः-न युक्तः ॥ ३२ ॥

 रामे हि यौवराज्यस्थे राजा दशरथो वनम् ।
 प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥ ३३ ॥

 यदेवमतः-राम इत्यादि । पूर्ववृत्तमिति । पुत्रं राज्ये प्रतिष्ठाप्य वनं प्रतिष्ठमानानां पूर्वराजर्षीणां वृत्तमनुस्मरन्नित्यर्थः ॥ ३३ ॥

 इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं [१]राजसंसदि ।
 सुमन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥ ३४ ॥
 नैव सा क्षुभ्यते देवी न च स्म परिदूयते ।
 न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥ ३५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः


 न परिदूयत इति । दूङ् खेदे । मार्ग (३५) मानः सर्गः ॥ ३५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चत्रिशस्सर्गः


षट्त्रिंशः सर्गः

[सिद्धार्थवचनम्]

 [२]ततस्सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया ।
 सबाष्पमतिनिश्वस्य [३]जगादेदं पुनर्वचः ॥ १ ॥


  1. जनसंसदि-ङ.
  2. ततः-कैकेयीसम्मत्यभावानन्तरम्-गो.
  3. जगादैनं-ङ.