पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/४०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६ सर्गः]
361
एवमुक्ताऽपि केकेयी न चचाल स्वनिश्चयात्

 एवं सुमन्त्रेण मिथ्याप्रतिज्ञाश्रयणेन रामाभिषेकस्यैव स्थापने राजा तु स्वकृतस्य वास्तवत्वमवगच्छन् राम[१] प्रवासं निश्चित्य रामस्य वनवास एव सुखवासोपायमादिशति-तत इत्यादि । प्रतिज्ञयेति । वास्तव्येति यावत् ॥ १ ॥

 सूत ! रत्नसुसंपूर्णा [२][३]चतुर्विधबला चमूः ।
 राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम् ॥ २ ॥

 चतुर्विधबला-रथादिचतुर्विधबलवती चमूः-सेना प्रतिविधीयतां- नियुज्यतामिति यावत् ॥ २ ॥

 रूपाजीवाश्च [४]शालिन्यो वणिजश्व महाधनाः ।
 शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः ॥ ३ ॥

 शालिन्य इति । रूपशालिन्य इत्यर्थः । सम्यक् प्रवर्तिताः ॥ ३ ॥

 ये[५] चैनमुपजीवन्ति रमते यैश्च वीर्यतः ।
 तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय ॥ ४ ॥
 आयुधानि च [६]नागराश्शकटानि च ।
 अनुगच्छन्तु काकुत्स्थं व्याघाश्चारण्य[७]गोचराः ॥ ५ ॥

 नागराः–नगरैकप्राप्याः पदार्थविशेषाः विचित्रवस्त्राभरणचन्दनादयः ॥ ५ ॥


  1. वनवासं-ट.
  2. पदातिसमुदायादीनामपि सेनाङ्गानां सेनात्वव्यवहारसत्त्वात् चतुरङ्गबला चमूरित्युक्तिः
  3. चतुरङ्ग-ङ.
  4. वादिन्यः, नादिन्यः-ङ. च.
  5. एनं-रामम्
  6. मुख्यानि नागराः नगरजाः श्रेष्ठिनः-गो.
  7. कोविदाः-ङ.